SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ ।।८६ ॥ अर्हद्दत्तोऽपि तदनु-सेहेऽरतिपरीषहम् ॥ ११७ ॥ प्राप्यबोधममरादिति यद-संयतोऽरतिपरीषहमेषः ॥ सोढवान् शमधनरपरैर-प्येवमेव स सदा सहनीयः ।। ११८ ॥ इत्यरतिपरीपहे अर्हद्दत्तमुनिकथा ॥७॥ उत्पन्नसंयमारतेश्च स्त्रीभिः प्रार्थ्यमानस्य तदभिलापः स्यादिति स्त्रीपरीषहमाहमूलम्- संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ। जस्स एआ परिण्णाया, सुकडं तस्स सामण्णं ॥ १६ ॥ व्याख्या-सङ्गो लेप एष वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काश्चन मानुष्याद्या लोके जगति स्त्रियो युवतयः, एता हि हावभावादिभिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुक्तं, अन्यथा गीताद्यपि सङ्गहेतुरेव, मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात् , ततः किमित्याह- यस्य यतेरेताः स्त्रियः परिज्ञाता ज्ञपरिज्ञया अत्रामुत्र च महानर्थहेतुतया विदिताः, प्रत्याख्यानपरिज्ञया च प्रत्याख्याताः, 'सुकडंति' सुष्ठ कृतं 'तस्सत्ति' विभक्तिव्यत्ययात्तेन श्रामण्यं चारित्रं, अयं भावः-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव चावद्यहेतू , न च स्त्रीभ्यः परं | रागद्वेषमूलमस्तीति स्त्रीप्रत्याख्यान एव श्रामण्यं सुकृतं भवतीति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याह| मूलम् - एअमादाय मेहावी, पंकभूआ उ इत्थीओ ॥ नो ताहिं विणिहणेजा, चरे जत्तगवेसए ॥१७॥ व्याख्या-एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह- पङ्कः कर्दमस्तद्भूता एव मुक्ति UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy