SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। ८५ ॥ निपतन्तमधोमुखम् ॥ अर्हद्दत्तः क्वचिच्चैत्ये-ऽद्राक्षीदिव्यानुभावतः ॥ १०३ ॥ ततः स विस्मयामर्ष-प्रकर्षावेशस- द्वितीयमध्यङ्कलः ॥ अमुना वाक्यबाणेन, मुखचापमयोजयत् ॥ १०४ ॥ यथा यथाऽय॑ते लोकै-य॑न्तरोऽसौ तथा तथा ॥| यनम् (२) पतत्यधोमुखो नीचै-रुच्चैः संस्थापितोऽपि यत् ॥ १०५॥ तस्मादस्मादधन्योऽन्यो, न दृष्टः कोऽपि भूतले ॥ इत्यूचानं च तं साधु-मेवं देवोऽवदत्पुनः ॥ १०६ ॥ [ युग्मम् ] यदुचैः संयमस्थाने, स्थापितोऽपि पुनः पुनः ॥ पूज्य- TAL मानोऽपि लोकैश्च, ततोऽधः पतसि द्रुतम् ॥ १०७॥ तस्मात्त्वमप्यधन्योऽसि, रे दुर्बोधशिरोमणे !॥ तदाऽऽक pऽतिसम्भ्रान्तो-ऽर्हद्दत्तः पृष्टवानिति ॥१०८॥ भूयो भूयो वदन्नेवं, कोऽसि ? त्वमिति मे वद ॥ ततः सुरो मूक-2 रूपं, दर्शयित्वेत्युवाच तम् ॥ १०९ ॥ शृणु भ्रातः ! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि ॥ तदा च भवता मह्य-मित्यभूत्प्रतिपादितम् ॥ ११० ॥ भवत्सहोदरत्वेनो-त्पन्नं च्युत्वा त्रिविष्टपात् ॥ बोधयेजैनधर्म मां, त्वं प्राप्तोऽपि सुरालयम् ॥ १११॥ इति त्वदुक्तं च मया, तदासीत्वीकृतं यतः ॥ त्वां विबोधयितुं देवी-भूतोऽप्यत्राऽऽगर्म ततः ॥ ११२ ॥ स्वीकृत्याऽपि ततो धर्म, मा विमुञ्च मुहुर्मुहुः ॥ निशम्येति मरुद्वाक्य-महद्दत्तोऽब्रवीदिदम् ॥ ११३ ॥ देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नु कः? ॥ ततो देवस्तमादाय, ययौ वैताट्यपर्वतम् ॥ ११४ ॥ कुण्डलद्वितयं तेन, प्रोक्तपूर्व स निर्जरः ॥ तन्नामाकं समाकृष्य, पुष्करिण्या अदर्शयत् ॥ ११५ ॥ तद्वीक्ष्य खाभिधानाङ्क, जातिस्मरणमाप सः॥ लब्धबोधिस्ततो भाव-संयमं प्रत्यपद्यत ॥ ११६ ॥ स्थापयित्वेति तं धर्म, स्वस्थानं त्रिदशो ययौ ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy