________________
॥८४ ॥
तद्वाणी-मित्यभाणीद्भरादितः॥ ८९ ॥ वाह वाहममुं भारं, वज्रसारमहर्निशम् ॥ कुजीभूतोऽस्म्यहं तन्मे, साम्प्रतं साम्प्रतं व्रतम्॥९०॥ ततो मायागदङ्कार-स्तं निन्ये मुनिसन्निधौ ॥ तस्मै प्रदाप्य दीक्षां च, स्वयं खलॊकमीयिवान्॥९१॥ गते देवे व्रतं हित्वा-ऽहद्दत्तोऽगानिजं गृहम् ॥ सुरोऽप्यवधिनाऽज्ञासी-तं प्रव्रज्यापरिच्युतम् ॥९२॥ ततो जलोदव्याधि-बाधितं तं व्यधात्पुनः ॥ तयैव परिपाट्या च, दीक्षयामास निर्जरः ॥ ९३॥ मूकदेवे गतेऽत्याक्षी-दहइत्तः पुनव्रतम् ॥ तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ॥ ९४ ॥ अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः॥ तस्थिरीकरणायाऽस्था-न्नित्यं तत्पार्थ एव सः ॥ ९५ ॥ सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा ॥ प्रवेष्टुं प्रज्वल
द्वामे, समं तेन प्रचक्रमे ॥ ९६ ॥ दक्षमन्यस्ततो देव-महहत्तोऽब्रवीदिदम ॥ मध्ये प्रदीपनं यासि, तृणभारं ददत्क|| थम् ? ॥ ९७ ॥ देवोऽवक् वेत्सि यद्येत-त्तर्हि कोपादिपावकैः ॥ जाज्वल्यमानं विशति, गृहवास कुतो भवान् ।
॥९८ ॥ तन्निशम्याप्यबुद्धं तं, सहादाय पुरो ब्रजन् । मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ॥ ९९ ॥ ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् ॥ हित्वाऽध्यानमरण्यानी, प्रविशस्युत्पथेन किम् ? ॥ १०० ॥ स्वर्गी जगाद यद्येत-जानासि त्वं तदा कुतः १ ॥ विहाय मुक्ति पन्थानं, विविक्षसि भवाटवीम् ॥ १.१॥ तदाकाप्यबुद्धेन, तेन सार्धं सुधाशनः ॥ अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ॥ १०२ ॥ व्यन्तरं पूजितं सन्तं,
१ योग्यम् ॥
UTR-1