SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्य यनम् (२) ।। ८३ ।। भववाक्यं चा-स्मार्षीत्खीकृतमात्मना ॥ ७६ ॥ दुर्बोधस्य ततस्तस्य, प्रतिबोधाय सोऽमरः ॥ पाथः पूर्णदृतिप्रायं, प्रोच्चै- श्चक्रे जलोदरम् ॥ ७७ ॥ उत्थातुमपि तद्भारा-दर्हद्दत्तः शशाक न॥ जहुवैद्याश्च सर्वेऽपि, तं चिकित्सितुमक्षमाः॥८॥ सद्यः समग्ररोगान्तं, करोमीत्युचकैर्वदन् ॥ ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ॥७९॥ अर्हद्दत्तोऽथ तं वीक्ष्य, सद्यः स्माह कृताञ्जलिः॥ नीरुजं कुरु मां वैद्य !, व्यपनीय जलोदरम् ॥ ८॥ निजगादाऽगदङ्कारो, गदोऽसाध्योऽयमस्ति ते ॥ तथापि शमयाम्येन-मुपायैर्विविधैरहम् ॥ ८१॥ किन्तु भेषजशस्त्रादे-रमुं कोत्थलकं मम ॥ यावजीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ॥ ८२ ॥ ततो रोगी जगौ रोग-मेनं हृतवतस्तव ॥ सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः ॥ ८३॥ नीतो नीरोगतां माया-भिषजा भेषजैस्ततः ॥ तद्दासत्वमुरीकृत्य, तेन साकं चचाल सः॥ ८४ ॥ उत्पाटनार्थं तस्याथ, शस्त्रकोत्थलकं निजम् ॥ देवो ददौ महाभारं, निर्ममे तं च मायया ॥ ८५॥ अर्हइत्तोऽपि तं भूरि-भारमन्वहमुद्वहन् ॥ इति दध्यौ कथमयं, मया शश्वद्वहिष्यते ? ॥८६॥ वाग्बद्धश्च कथङ्कार, भारमेनं जहाम्यहम् ॥ चिन्तयन्निति सोऽचाली-द्वीवधानतकन्धरः॥८७॥ ददर्श चाऽन्यदा क्वापि, साधून्खाध्यायतत्परान्॥ तदा तं वीवधोद्विग्न-मेवं मायाभिषग् जगौ॥ ८८॥ प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया ॥स निशम्येति १ अत्रानिट्त्वादिटा न भाव्यम् , तथापि सर्वेषां घातूनां विकल्पितेट्त्वं [ धूगौदितः-४-१-३८] इति सूत्रे 'बहुलमेकेषां विकल्पः इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy