________________
द्वितीयमध्ययनम् (२)
॥८१ ।।
उत्तराध्ययन मिता ॥ लोकास्तु तमजल्पंत-मजल्पन्मूकनामकम् ॥४७ ॥ ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोधमथाऽन्यदा ॥ चतुर्ज्ञान
धरास्तत्र, स्थविराः समवासरन् ॥ ४८ ॥ तैश्च मूकगृहे श्रेष्ठौ, श्रमणौ प्रहितावुभौ ॥ तच्छिक्षितामिमां गाथां, पुरो | मूकस्य पेठतुः ॥४९॥ "तावस ! किमिणा ? मूअ-बएण पडिवज जाणितुं धम्मं ॥ मरिऊण सूअरोरग, जाओ पुत्तस्स
पुत्तोत्ति ॥५०॥” श्रुत्वेति विस्मितो मूक-स्तौ प्रणम्येति पृष्टवान् ॥ एतधुवां कथं वित्थ-स्ततस्तावित्यवोचताम् ॥५१॥ | इहोद्याने स्थिता अस्म-गुरयो हि विदन्त्यदः॥ ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमद्गुरून् ॥ ५२ ॥ श्रुत्वा तद्दे| शनां पाप- पंकप्लावनवाहिनीम् ॥ स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ॥ ५३॥ इतश्च जातिमदकृ-त्पुरोहितसुतो
उमरः ॥ महाविदेहे सर्वज्ञ-मित्यपृच्छत्कृताञ्जलिः॥ ५४॥ अहं किमस्मि ? सुप्राप-बोधिस्तदितरोऽथ वा ॥ जिनो || जगाद देव ! त्व-मसि दुर्लभबोधिकः॥५५॥ सरोऽप्रच्छत्पनः सार्व.कोत्पत्सेऽहमितश्यतः॥ जिनो जगौ त्वं कौशा
म्च्यां, मूकभ्राता भविष्यसि ॥ ५६ ॥ धर्मावाप्तिश्च ते मूका-द्भाविनीति निशम्य सः॥ जिनं प्रणम्य कौशाम्ब्यां, मूकोपान्तमगात्सुरः ॥ ५७ ॥ दत्वा तस्मै बहुद्रव्यं, तमित्यूचे च सोऽमरः ॥ अहं त्वन्मातुरुत्पत्स्ये, गर्भे वर्गात्परि| च्युतः ॥ ५८ ॥ अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः ॥ सदाफलाम्रस्तद्धेतो-रोपितोऽस्ति मया गिरौ॥५९॥ | आम्राणि याचते सा च, यदा तद्दोहदाकुला ॥ अक्षराणि पुरस्तस्या-स्त्वमेतानि लिखेस्तदा ॥ ६॥ गर्भस्थमङ्गजमिमं, मातर्मयं ददासि चेत् ॥ ददे तदानीमानीय, सहकारफलानि ते॥६१॥ इदं तस्यां प्रपन्नायां, समानीय ततो
UTR-1