SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ।। ८०॥ किम्पुनः साधुवाधकः! ॥ ३३ ॥ अथाऽभ्यधान्नृपो भ्रात-मन्तुमेनं क्षमख मे ॥ अनुकम्पख चेदानी, तौ बालौ दुर्दशां गतौ ॥ ३४ ॥ मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् ॥ तदा तौ सजयामि द्राकू, कुमारौ नान्यथा पुनः ॥ ३५॥ पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः ॥ पृष्टौ कुमारौ तौ दीक्षा-ऽऽदानं खीचक्रतुस्तदा ॥ ३६ ॥ ततः स युवराजर्षिः, प्राक् कृत्वा लुञ्चनं तयोः॥ पश्चात्ती सजयामास, दीक्षयामास च द्रुतम् ॥ ३७॥ तत्र पृथ्वीपतेः पुत्रो, | निश्शङ्कोऽपालयगतम् ॥ मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः॥ ३८ ॥ प्रद्वेषादिति दध्यौ च, सदीक्षां पालयन्नपि॥ अहो! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ॥ ३९ ॥ ततो दुर्लभबोधित्वं, पुरोधः सूनुराजयत् ॥ क्रमावावपि तौ कालं, कृत्वा देवौ बभूवतुः॥४०॥ इतश्च पुर्या कौशाम्ब्यां, श्रेष्ठ्यभूत्तापसाभिधः ॥ स मृत्वा खगृहे जज्ञे, लोभावेशेन शूकरः ॥४१॥ स खसौधादिकं दृष्ट्वा, जातजातिस्मृतिः किरिः॥ निजघ्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ॥४२॥ ततो रेसावशावेणी-कल्पः खगृह एव सः ॥ भुजगोऽजनि जातिं च, सस्मार प्राग्वदात्मनः॥४३॥ | भ्रमन्नयं गृहान्तों, मावधीदिति चिन्तिभिः ॥ सुतैरेव हतः सोऽहिः, खसूनोस्तनयोऽभवत् ॥४४॥ प्राग्वजातिस्मृति प्राप्तो, मूकत्वं खीचकार सः ॥ स्नुषामम्बां सुतं तातं, कथं ? वच्मीति चिन्तयन् ॥४५॥ उपायैः प्रचुरैर्मातापितृभ्यां विहितैरपि ॥ मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ॥ ४६॥ अशोकदत्त इत्यासी-त्तस्याह्वा तातनि १ रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy