________________
उत्तराध्ययन
।। ७७ ।।
अचेलस्य चाऽप्रतिबद्धविहारिणः शीतादिभिः पीड्यमानस्याऽरतिरपि स्यादिति तत्परीषहमाह - मूलम् - गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ १४ ॥ व्याख्या - ग्रामश्च जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः 'रीअंतंति' | रीयमाणं विहरन्तं अनगारं मुनिं अकिञ्चनं निष्परिग्रहं, अरतिः संयमविषया अधृतिः अनुप्रविशेन्मनसि लब्धास्पदा भवेत्, तं अरतिरूपं तितिक्षेत सहेत परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाह - मूलम् - अरई पिट्टओ किच्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ॥ १५ ॥
व्याख्या – अरतिं पृष्ठतः कृत्वा धर्मविघ्नहेतुरियमिति तिरस्कृत्य विरतो निवृत्तो हिंसादेः, आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, धर्मे श्रुतधर्मादौ आरमते रतिमान् स्यादिति धर्मारामः, निरारम्भोऽसत्क्रियाभ्यो निवृत्तः, उपशान्तः क्रोधाद्युपशमवान् मुनिश्वरेत्, संयमं परिपालयेन्न पुनरुत्पन्नारतिरपि व्रतं त्यक्तकामः स्यादिति सूत्रार्थः ॥ १५ ॥ कथानकञ्चात्र तथाहि
जितशत्रुरभूद्भूपः, पुरेऽचलपुरे पुरा ॥ तत्सुतो युवराड् दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ॥ १ ॥ विहरन्तोऽन्यदा तेन, युवराजर्षिणा समम् ॥ पुण्यप्रथा रथाचार्या - स्तगरानगरीं ययुः ॥ २ ॥ तेषां स्वाध्यायशिष्यास्तु, विश्वविख्यातकीर्त्तयः ॥ आर्यराधाभिधाचार्या, उज्जयिन्यां तदाऽभवन् ॥ ३ ॥ तच्छिष्याः केप्यवन्तीत- स्वगरानगरी
द्वितीयमध्ययनम् (२)
UTR-1