SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ ।। ७८ ॥ गताः ॥ रथाचार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ॥४॥ आर्यराधा निराबाधा-स्सन्ति कचित्तपखिनः ॥ कञ्चिन्निरुपसर्ग वा-ऽवत्यां तिष्ठन्ति साधवः ?॥५॥ ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः ॥ राट्पुरोधःसुतौ किन्तु, तत्रोद्वेजयतो यतीन् ॥ ६ ॥ तच्छत्वा युवराजर्षिः, सोऽध्यासीदिति शुद्धधीः ॥ अवंतीनृपपुत्रो यः, स भ्रातृव्यो भवेन्मम ॥७॥ असौ साधूनवज्ञाय, संसारे मा भ्रमेदिति ॥ आपृच्छय स्वगुरुन् शीघ्रमुज्जयिन्यां जगाम सः॥ ८॥ आर्यराधान् प्रणम्याथ, तैर्निषिद्धोऽपि स खयम् ॥ ययौ भिक्षार्थमादाय, क्षुल्लकं | | गृहदर्शकम् ॥ ९॥ गच्छंश्च युवराजर्षिः, क्षुल्लकं तमदोऽवदत् ॥ वेश्म दर्शय मे ताव-नृपसूनोमुनिद्विषः ॥१०॥ नृपाङ्गजगृहं तस्या-ऽदीदृशत् क्षुल्लकोऽपि सः॥प्राविशयुवराजर्षि-रपि तत्र भयोज्झितः॥११॥ तदा च तत्र क्रीडन्तौ, | सुतौ राजपुरोधसोः ॥ अभूतां सङ्गतावेक-राशौ पापग्रहाविव ॥१२॥ दृष्ट्वा तं चाऽऽगतं राज-परिवारोऽब्रवीदिति ॥ बजाऽन्यत्र मुने ! नो चेत् , त्वां कुमारौ हनिष्यतः ॥ १३ ॥ तदाकापि स पुरो, ययौ धैर्यनिधिर्मुनिः ॥ धर्म-IN लाभ इति प्रोचै- ढखरमुवाच च ॥ १४ ॥ अयं क्रीडनकप्रायो, यदिहागान्मुनिः खयम् ॥ तदस्मद्भाग्ययोगेन, | जातमद्याति शोभनम् ॥ १५ ॥ जल्पन्ताविति तौ राज-पुरोहितसुतौ शठौ ॥ तां मुनेर्गिरमाकर्ण्य, तदभ्यर्णमुपे-| यतुः ॥ १६ ॥ [युग्मम् ] अभ्यधत्तां च साधो ! त्वं, नर्तितुं बुध्यसे न वा! सोऽवादीद्वेयऽहं नाट्यं, वाद्यं वादयतं | युवाम् ॥ १७ ॥ आरेभाते ततस्तूर्य-ताडनं तौ यथातथा ॥ वाद्यं वादयितुं किन्तु, नाऽज्ञाशिष्टां यथोचितम् ॥१८॥ , यया धैर्यनिधिर्म कमायो, यदिहा ॥ जल्पन्ताविति UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy