________________
।। ७६ ।।
तं च चेन्न सहिष्यध्ये, तदा स्यात्सुन्दरं न नः ॥ इति स्थिरीकृतः सोमो-ऽवहत्तं सह साधुभिः ॥ १३८ ॥ तदा च | | तस्य पुरतो, गच्छत्सु बहुसाधुषु ॥ तद्वद्युत्सर्गार्थमेतासु, स्थिताखार्यासु पृष्ठतः ॥ १३९ ॥ पूर्वसङ्केतिता बालाः, सोम-IN देवमुनेद्रुतम् ॥ कटीपट्टकमाकृष्या-ऽऽदाय च त्वरितं ययुः ॥ १४० ॥ [ युग्मम् ] अतीव लजितः सोऽथ, परेरूचे | शवं त्यजन् ॥ उपसर्ग सहखाऽमुं, मा मुञ्च मृतकं करात् ॥ १४१ ॥ ततस्तस्याऽन्यमुनिना, मानोपेतान्यचीवरम् ॥ बद्धं दवरकेणोच्च-विधाय कटिपट्टवत् ॥ १४२ ॥ पश्यन्ति मां स्नुषाः पश्चा-दिति हीणोऽपि तं शवम् ॥ स उवाहोप * सोऽसौ, जात इत्यवधारयन् ॥ १४३॥ परिष्ठाप्य शबं पश्चा-दागतं वीक्ष्य तं गुरुः ॥प्रोचे तात ! किमद्यदं, वासः परिदधे ? लघु ॥१४४॥सोमः शशंस पुत्राऽद्यो-पसर्गोऽभूदुपस्थितः ॥ गते च शाटके तेन, पर्यधां लघु चीवरम् ॥१४५॥ ससम्भ्रमा इवाचार्या-स्तन्निशम्यैवमूचिरे ॥ तातार्थमानयत भो-विनेयाः ! पृथु शाटकम् ॥ १४६॥ ततः सोमोऽब्रवीत्पुत्र !, लज्जनीयं बभूव यत् ॥ तन्मेऽद्य सकलैदृष्ट-माकृष्टे कटिपट्टके ॥ १४७ ॥ तच्चोलपट्ट एवाऽस्तु, शाटकेन कृतं | मम ॥ इत्यूचानमनूचाना-स्तं तथैवाऽनुमेनिरे ॥ १४८ ॥ इत्युपायैश्चोलपटुं, ग्राहितः सूरिपुङ्गवैः ॥ सोमस्ततः परं | - सम्यक्, सेहेऽचेलपरीषहम् ॥ १४९ ॥ पश्चादचीवरपरीषहमेष यद्वत् , श्रीसोमदेवमुनिरित्यसहिष्ट सम्यक् ॥ सह्यः परै- | || राप तथा श्रमणेः स नित्यं, श्रीमजिनेन्द्रवचनान्यनुवर्तमानैः ॥ १५० ॥ इत्यचेलपरीषहे सोमदेवर्षिकथा ॥६॥
UTR-1