________________
उत्तराध्ययन
॥७५ ॥
कमण्डलुधरत्वाद्धि, न त्वां वन्दामहे वयम् ॥ यत्कदापि यतेः पार्थे, नाऽपश्याम कमण्डलुम् ॥ १२३॥ तच्छ्रुत्वा | द्वितीयमध्यसूरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ ॥ पात्रकेणैवाऽथ शौचं, कार्य गुरुरपीत्यवक् ॥ १२४ ॥ पुनस्तथैव तं वाला, . यनम् (२) नाऽनमन् सूरिशिक्षिताः॥ अवन्दननिदानञ्च, पृष्टास्तेनेति तं जगुः ॥ १२५ ॥ यज्ञोपवीतवन्तं नो, मुनिं मन्यामहे वयम् ॥ * ततः सोमः सुतं पृष्ट्वो- पवीतमपि मुक्तवान् ॥ १२६॥ तन्मोक्षणक्षणे त्वेवं, प्रोचुः श्रीआर्यरक्षिताः ॥ एतन्मुञ्चत कोबस्मान्, विप्रान्नो वेत्त्यदो विना ? ॥१२७॥ इत्थं छत्रादिके तेन, त्यक्ते बालाः पुनर्जगुः ॥ न शाटकोपसंव्यानमेनं वन्दामहे मुनिम् ॥१२८ ॥ सोमदेवस्तदाकर्ण्य, जजल्पाऽनल्पकोपभाकू ॥रे ! मा नमत मां यूयं, समं पितपितामहैः ॥ १२९ ॥ येऽन्ये नमन्ति तैरेव, सन्तुष्टिम भविष्यति!॥ कटीपट्टकमेनं तु, न त्यक्ष्यामि ! भवद्विरा ॥१३०॥ तदाकर्ण्य ययुालाः, अन्यदा च महामुनिः ॥ विहिताऽनशनः कोऽपि, तत्र गच्छे व्यपद्यत ॥१३१॥ तदा पितुः कटी| पट्ट-त्याजनाय जगौ गुरुः॥ अस्य देहं वहति य-स्तस्य लाभो भवेन्महान्॥१३२॥ततस्तच्छिक्षिताः पूर्व-दीक्षिता भिक्षवः । | परे॥ उदतिष्ठस्तमुद्दोवं, तदा चेत्यऽत्रवीद्गुरुः ॥ १३३॥ यूयं यदुत्थिताः सर्वे-ऽप्यमुं लाभं जिघृक्षवः ॥ तदस्मद्वन्धु-* | वर्गोऽयं, निर्जरां लप्स्यते कथम् ? ॥ १३४ ॥ तदाकर्ण्य सकर्णोऽथ, सोमदेवमुनिर्जगौ ॥ किमत्र प्राप्यते पुत्र !, नि| जरा भूनसीतरा ? ॥ १३५ ॥ उवाच सूरिः कार्येऽस्मि-निर्जरा जायते भृशम् । सोऽभ्यधादहमप्येनं, तद्वहिष्ये सहपिमिः॥१३६॥ गुरुर्जगी बालकृतः, उपसर्गोऽत्र जायते ॥ तं चेत्सहितुमीशिध्वे, वहनीयस्तदा खयम् ॥ १३७ ॥
UTR-1