SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ।। ७४ ।। विरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ॥ १०८ ॥ छत्रादिकं पुनर्नेत-दात्मनां बहु शोभते ! ॥ निशम्येति वचः सूरेः, सोमदेवमुनिर्जगौ ॥ १०९ ॥ गन्तुं शक्नोम्यहं नैव, पुत्र ! छत्रं विनाऽऽतपे ॥ विण्मूत्रोत्सर्जने शौचं, कथं स्यात्करकं विना? ॥ ११॥ त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् ॥ पीडा च स्यात्कण्टकैम, विनोपानहमध्वनि॥१११॥ सूरिः स्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम् ॥ भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः॥११२॥ ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः ॥ बालान् किञ्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ॥११३॥ ततस्तच्छिक्षिता वालाः, सोमदेवतपखिनम् ॥ हित्वा क्षुल्लकपर्यन्तान् , सर्वसाधून ववन्दिरे॥ ११४ ॥ दर्श दर्श सोमदेवं, ते चैवं प्रोचिरे मिथः ॥ नाऽस्माभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः ॥ ११५ ॥ तच्छ्रुत्वा सोमदेवर्षी-रुष्टोऽभाषिष्ट तानिति ॥ अरे! मत्पुत्रपौत्रादीन , वन्दध्ये बालकानपि ॥ ११६ ॥ मां तु वृद्धं गुरोस्तात-मपि नो नमथाऽर्भकाः!॥ तत्किं मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ? ॥ ११७ ॥ वालाःप्रोचुर्दीक्षितस्य, भवेच्छत्रादिकं कथम् ॥ त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु !॥११८ ॥ सोमोऽथ व्यमृशच्छावाः, अप्येवं शिक्षयन्ति माम् ॥ साध्याचारविरुद्धं त-च्छत्रमेतजहाम्यहम् ॥ ११९ ॥ विचिन्त्येति जिनान्नत्वा-ऽऽगतान्सूरीनुवाच सः ॥ उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ॥ १२० ॥ गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् ॥ प्रबले त्यातपे धार्यः, कल्पको मस्तकोपरि ॥ १२१ ॥ गुरौ गतेऽन्यदा क्वापि, बालास्तच्छिक्षिताः पुनः ॥ तं विहायापरान्नेमु-स्तत्पृष्टाश्चैवमूचिरे ॥१२२॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy