SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ॥७३॥ स गुरु, तं गुरुस्तु निषिद्धवान् ॥ ९३ ॥ अन्यदा स सहादाया-ऽनुज गुर्वन्तिकं गतः ॥ इत्यूचेऽसौ मम भ्राता, | मामाहातुमिहाययौ ॥ ९४ ॥ तदादिशत मां पूज्याः, श्रुत्वेति व्यमृशद्गुरुः॥ रक्ष्यमाणोऽप्यसौ, कस्मा-गन्तुमुत्सहते? मुहुः ॥ ९५.॥ विचिन्तयन्निति श्रीमान्, वज्रखामी गुणोदधिः ॥ श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः॥९६॥ नाऽऽगन्ताऽसौ गतः सद्यः, खल्पमायुर्ममाऽपि च ॥ तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ॥ ९७॥ ज्ञात्वेत्यनुमतो गन्तुं, श्रीवजेणार्यरक्षितः॥ पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ॥ ९८॥ श्रुत्वा तमागतं रुद्र-सोमासोमौ नृपोऽपि च ॥ नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः ॥ ९९ ॥ तेषां हिताय सोप्युच्चै-विदधे धर्मदेशनाम् ॥ ताञ्चाकर्ण्य महानन्द-मविन्दन्त नृपादयः ॥ १०॥ ततो भ्रातृव्यदौहित्र-स्नुषापुत्रादिभिः समम् ॥ रुद्रसोमाऽऽददे दीक्षां, सम्यक्त्वं पार्थिवः पुनः॥१.१॥ कथं पुत्रीस्नुषादीनां, पुरो नग्न इवाऽन्वहम् ॥ तिष्ठामीति हिया सोम-देवो न प्राबजत्पुनः ॥१०२ ॥ किन्तु खजनपुत्रादि-स्नेहपाशनियत्रितः ॥ शश्वत्तत्पार्थ एवास्था-न त्वन्यत्र | जगाम सः ॥ १०३ ॥ तश्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः ॥ तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ॥१०४॥ | यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः ॥ चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति सोऽप्यऽवक् ॥ १०५ ॥ यथाकथञ्चिट्टद्धोऽयं, तार्य एवेति चिन्तयन् ॥ सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ॥ १०६ ॥ करणं चरणं चानु-वृत्तिमेव वितन्वता ॥ पाहणीयो मया तातो, ध्यात्वेति माह तं गुरुः ॥१०७ ॥ सर्वेऽमी मुनयश्चोल-पढे परिदधत्यमी ॥ स्थ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy