________________
।। ७२ ।।
इतश्च पितरावार्य - रक्षितस्य समुत्सुकौ ॥ इति प्राहिणुतां भूयः, सन्देशान् बहुभिर्जनैः ॥ ७९ ॥ आगच्छ कुलभानो ! त्वं वत्सोद्योतं विधेहि नः ॥ त्वद्वियोगाद्यदस्माकं दर्शरात्रीयते जगत् ॥ ८० ॥ इति सन्देशवचनै- र्यावदागान्न सोमभूः ॥ तावत्ताभ्यां तमाङ्खातुं प्रेषितः फल्गुरक्षितः ॥ ८१ ॥ सोऽप्यागत्य प्रणम्यार्य - रक्षितर्षिमदोऽवदत् ॥ किमेवं खकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽतम् ? ॥ ८२ ॥ वैराग्याद्वा न ते रागो, यद्यपि खेषु विद्यते ॥ तथापि शोकमग्नांस्तान्, कारुण्येन समुद्धर || ८३ ॥ किञ्चादातुं परिव्रज्या - मुत्सुकाः सन्ति बन्धवः ॥ तत्रागत्य ततस्तेषां, देहि मुक्तिप्रदं व्रतम् ॥ ८४ ॥ अथेति व्याजहारार्य - रक्षितः फल्गुरक्षितम् । यदि सूनृतमेतत्स्यात्, तदा त्वं स्वीकुरु व्रतम् ॥ ८५ ॥ इति तेनोदितः प्राज्ञः सोऽवदद्देहि मे व्रतम् ॥ ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः ॥८६॥ गन्तुं स्माह पुनः फल्गु - रक्षितोऽप्यार्यरक्षितम् ॥ गमनायोत्सुकः सोऽपि, श्रीवत्रं पृष्टवांस्ततः ॥ ८७ ॥ वज्रखामी ततोऽवादी - द्वत्स ! त्वं पठ मा ब्रज || निर्विण्णः सोऽथ यमकै - रित्यपृच्छत्पुनर्गुरून् ॥ ८८ ॥ कियन्मात्रं मयाऽधीतं, कियच्छेषं च वर्त्तते ॥ स्वामिन् ! दशमपूर्वस्ये - त्याख्याहि मम साम्प्रतम् ॥ ८९ ॥ ततः स्मित्वाऽवदत्सूरिः, पूर्वस्य दशमस्य हि ॥ विन्दुमात्रं त्वयाऽऽदायि, शेषं तु जलधेः समम् ॥ ९० ॥ अधार्यरक्षितः स्माह, श्रान्तोऽस्मि ! पठनादहम् ॥ पारं प्राप्तुं तदेतस्य न शक्ष्याम्यम्बुधेरिव ॥ ९१ ॥ गुरुर्जगाद वत्स ! त्वं, सोद्यमोऽसि सुधीर सि ॥ तदस्य पारं त्वरितं, लप्स्यसे किं विषीदसि ? ॥ ९२ ॥ इत्थमुत्साहितोऽध्येतुं प्रवृत्तोऽपि पुनः पुनः ॥ गन्तुं पप्रच्छ
UTR-1