SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। ६७ ।। सर्वेण, पूर्जनेन नृपेण च ॥ जगाम स्वगृहं बाह्य - शालामध्यवसच्च सः ॥ ७ ॥ पुरलोकेन राज्ञा चा-ऽर्च्यमानं तं धनादिना ॥ दृष्ट्वा तद्बन्धवो हृष्ट-मानसा बह्वमानयन् ॥ ८ ॥ आबद्धतोरणं सद्यः, पौरैस्तन्मन्दिरं तदा ॥ रूप्यस्वर्णमणिधेनु - प्रभृतिप्राभृतैर्भृतम् ॥ ९ ॥ अथार्यरक्षितो दध्यौ, प्रमादाज्जननीं निजाम् ॥ यन्नाद्राक्षमहं पूर्व, तद्विनीतस्य नोचितम् ॥ १० ॥ मद्वियोगाद्दशां माता, कामप्याप्ता भविष्यति ॥ तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम् ॥ ११ ॥ ध्यात्वेति स द्रुतं दिव्य- वस्त्राभरणभूषितः ॥ अन्तर्गेहमगात्खीयां, सवित्रीं प्रणनाम च ॥ १२ ॥ स्वागतं तव हे पुत्रे -त्युदित्वा मौनमाश्रिता ॥ उदासीनेव सा त्वस्थात्, प्रेमान्तर्बहु विभ्रती ॥ १३ ॥ स्नेहोद्रेकं तदा मातुरपश्यन्नित्युवाच सः ॥ चिरादेतं भक्तिमन्तं मातम भाषसे न किम् ? ॥ १४ ॥ अधेत्थं रुद्रसोमाख्य-त्किमेभिः खान्यनाशकैः ॥ हिंसोपदेशकैः शास्त्र - रधीतैर्नरकप्रदैः ॥ १५ ॥ एतेषां च प्रभावेण त्वां घोरे दुःखसागरे ॥ पतिव्यन्तं प्रपश्यन्त्याः, स्यादानन्दः कथं ? मम ॥ १६ ॥ मद्वाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते ॥ स्वर्गापवर्गद वत्स !, दृष्टिवादं तदा पठ ॥ १७ ॥ अधार्यरक्षितो दध्या- वपि लोकप्रमोदिना ॥ तेनाधीतेन किं ? येन, जननी मे न तुष्यति ॥ १८ ॥ ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क पठ्यते ? ॥ साऽप्यवादी दृष्टिवादो ऽधीयते साधुसन्निधौ ॥ १९ ॥ दर्शनानां विचारो यो दृष्टिवादः स उच्यते ॥ तन्नामाऽप्यऽस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् ॥ २० ॥ इत्यार्यरक्षितो ध्यायन्, जगाद जननीमिति ॥ अध्येष्येऽहं दृष्टिवादं, त्वदादेशवशंवदः ॥ २१ ॥ [ युग्मम् ] सङ्ग द्वितीयमध्ययनम् (२) UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy