SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ॥६६॥ * अयं भावः- न जीर्णचेलोऽन्यचेलानां लाभासम्भावनया दैन्यं, लाभसम्भावनया वा प्रमोदं, गच्छेदिति सूत्रार्थः ॥ १२ ॥ यतःमूलम्-एगया अचेलओ होइ, सचेलेआवि एगया॥एअंधम्महिअंणच्चा, णाणी णो परिदेवए ॥१३॥ | व्याख्या-एकदा जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति, सचेलकश्चापि एकदा स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च धर्महितं साधुधर्मोपकारकं ज्ञात्वाऽवबुध्य, तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमण्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो परिदेवयेत् , अचेलस्य मम शीतसम्पातसन्तापितस्य किमिदानी शरणमिति न दैन्यमा| लम्बतेति सूत्रार्थः ॥ १३ ॥ उदाहरणम् सम्प्रदायश्चायमत्र, तथाहि- . अभूत्पुरे दशपुरे, सोमदेवो द्विजाग्रणीः ॥ तस्य भार्याऽभवद्रुद्र-सोमाह्वा परमाईती ॥१॥ तयोरभूतां द्वौ पु * गुणरत्नमहोदधी ॥ तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फल्गुरक्षितः ॥ २॥ तत्राऽधीत्य पितुः पार्थे, तद्विद्यामार्यर| क्षितः॥ जगामाधिकविद्यार्थी, पाटलीपुत्रपट्टनम् ॥३॥ साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश ॥ अधीत्यागाद्दशपुरं, पुरं स खजनोत्सुकः ॥ ४ ॥ तमधीतचतुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः ॥ अभिगम्य गजस्कन्धे-ऽध्यारोप्यावीविशत्पुरे | ॥५॥ कृत्वोत्तम्भितकेतुं त-नगरं नागरा अपि ॥ अभ्याययुस्तं सर्वेऽपि, प्रौढप्राभृतपाणयः ॥ ६॥ सम्पूज्यमानः UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy