________________
उत्तराध्ययन
॥६५॥
पपुः ॥ ६॥ निरन्तरं विलग्नेस्तै-दशैर्दशनतत्परैः॥ स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ॥ ७॥ दशत्सु तेषु | द्वितीयमध्य| तस्योच्चै-वेदनाऽऽसीत्तथापि सः ॥ तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥८॥ अचिन्तयच दंशोत्था, X यनम् (२) व्यथाऽसौ कियता मम ॥ इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥९॥ यतः-"परमाधार्मिकोत्पन्ना, मिथोजाः क्षेत्रजास्तथा ॥ नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न ! ॥१०॥" किञ्च-अन्यद्वपुरिदं जीवाजीवश्वान्यः शरीरतः ॥ जानन्नपीति को दक्षः, करोति ममतां तनौ ? ॥ ११॥ किञ्चानेन शरीरेण, स्वल्पकालविनाशिना ॥ यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ॥ १२ ॥ भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम् ॥ रात्रावेव जहाँ प्राणान् , दंशैः शोषितशोणितः ॥ १३ ॥ इति विषय स दंशपरीषहं, श्रमणभद्रमुनिस्त्रिदशोऽभवत् ॥ तदपरैरपि साधुवरैरयं, जिनवचोनिपुणैः परिषद्यताम् ॥ १४ ॥ इति देशमशकपरीपहे श्रमणभद्रश्रमणकथा ॥५॥
अथ दंशाद्यैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यचेलपरीषहमाहमूलम्-परिजुण्णेहिं वत्थेहिं, होक्खामित्ति अचेलए॥अदुवा सचेलए होक्खं, इइ भिक्खूण चिंतए॥१२॥
व्याख्या-परिसमन्तात् जीर्णैर्दुर्बलैर्वस्त्रैः कल्पादिभिः 'होक्खामित्ति' भविष्यामि अचेलकश्चेलहीनोऽल्पदिनभावित्वादेषां, प्राच्यस्य 'इति' शब्दस्य भिन्नक्रमस्येह सम्बन्धात् इत्येतद्भिक्षुर्न चिन्तयेदिति योगः, 'अदुवत्ति' अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिदुपासकः सुन्दराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्,
UTR-1