________________
।। ६२ ।।
ततःखीकृत्य तद्वाच-मवतस्थे स तद्गुहे ॥ तया साकं यथाकाम, रेमे चात्यन्तरक्तया ॥ ३१॥ अथ गोचरचर्यायां, वसतौ चाऽरहन्नकम् ॥ अप्रेक्षमाणा मुनयो-ऽन्वेषयन्निखिले पुरे ॥ ३२ ॥ तत्प्रवृत्तिमपि कापि, नालभन्त तथापि ते ॥ ततस्तन्मातुरार्याया-स्तं तदृत्तान्तमूचिरे ॥ ३३ ॥ वार्ता निशम्य तां पुत्र-शोकेनातिगरीयसा ॥ प्रणष्टचित्ता सा भूता-ऽऽविष्टेवोन्मत्ततामगात् ॥ ३४ ॥ ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् ॥ सा पुरे सकलेऽभ्राम्य-दृत्ता चेटकपेटकैः ॥ ३५ ॥ पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः ॥ तमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ ३६ ॥ दृष्टोऽरहन्नकः कापि, पुत्रो मे प्राणवल्लभः॥ यं यं पश्यति तं तं च, पृच्छन्तीति पुनः पुनः ॥ ३७ ॥ कृतानुकम्पा सुजनै-हस्यमाना च दुर्जनैः ॥ दृष्टाऽरहन्ननोचै-र्गवाक्षस्थेन साऽन्यदा ॥ ३८ ॥ [त्रिभिर्विशेषकम् ] प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्थां च तादृशीम् ॥ स समुत्पन्ननिर्वेदः, खहृदीति व्यचिन्तयत् ॥ ३९ ॥ अहो ! मे निर्विवेकत्वमहो ! दुष्कर्मकारिता ॥ यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ॥ ४०॥ दुस्सहे व्यसने माता, पातितेयमपीरशे ॥ खात्मा च व्रतभङ्गेन, भवाब्धी पातितो हहा !॥४१॥ इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् ॥ ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः ॥४२॥ कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः ॥ नमतीति ब्रुवन् बाष्प-प्लुताक्षसां ननाम च॥४३॥ तं वीक्ष्य खस्थचित्ता सा,सप्रमोदैवमत्रवीत् ॥ एतावन्ति दिनान्यस्थात् ?, कुत्र पुत्र ! भवानिति ॥४४॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् ॥ तं श्रुत्वा साऽवदद्वत्स !, भूयः स्वीकुरु
UTR-1