________________
उत्तराध्ययन ।। ६३ ।।
संयमम् ॥ ४५ ॥ तुच्छानां मर्त्यसौख्याना - मेतेषां हेतवे कृतिन् ! ॥ अनन्तदुःखदा मा स्म - स्वीकार्षीर्न रकव्यथाः ॥ ४६ ॥ सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं त्रतपालने ! ॥ ततो वदसि चेन्मातः !, करोम्यनशनं तदा ॥ ४७ ॥ तुष्टा भद्राऽभ्यधाद्भद्र !, तवैतदपि साम्प्रतम् ॥ नत्वनन्तभवभ्रान्ति - निमित्तं व्रतभञ्जनम् ॥ ४८ ॥ यदाहुः - " वरमरिंगमि पवेसो, वरं विसुद्वेण कम्मुणा मरणं ॥ मा गहिअन्वयभंगो, मा जीअं खलिअसीलस्स ॥ ४९ ॥ ततः स योगं सावद्यं, प्रत्याख्याय महाशयः ॥ क्षमयित्वाऽखिलान् जन्तू - न्निन्दित्वा दुरितं निजम् ॥ ५० ॥ श्रत्वा चत्वारि शरणान्यादायाऽनशनं तथा ॥ गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ॥ ५१ ॥ [ युग्मम् ] धर्मध्यानी पादपोपगमनं प्रतिपालयन् ॥ तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ॥ ५२ ॥ स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः ॥ व्यलीयत मुहूर्त्तेन, तत्र म्रक्षणपिण्डवत् ॥ ५३ ॥ [ युग्मम् ] इत्थमुष्णमधिस स पश्चा- दत्तनन्दनमुनिस्त्रिदशोऽभूत् ॥ एवमेतदपरैरपि सम्यग्, मर्षणीयमृषिभिर्निरमर्षेः ॥ ५४ ॥ इत्युष्णपरीषहे अरहन्नकमुनिकथा ॥ ४ ॥
अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाह
मूलम् — पुट्ठो अ दंसमसएहिं समरेव महामुनी ॥ णागो संगामसीसे वा, सूरो अभिहणे परं ॥ १० ॥ व्याख्या - स्पृष्टोऽभिद्रुतः, चः पूर्त्ती, दंशमशकैरुपलक्षणत्वाद्यूकामत्कुणादिभिश्व 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव, प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीब, वाशब्दस्येवाथ
द्वितीयमध्ययनम् (२)
UTR-1