SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ।। ६०॥ ___ अभूलक्ष्मीकुलागारं, नगरी तगराभिधा॥ दत्तप्रमोदस्तत्रासी-दत्तनामा वणिग्वरः ॥ १॥ स भद्राभार्यया साकं, | भानः सुखमुत्तमम् ॥ अरहन्नकनामानं, पुत्ररत्नमजीजनत् ॥ २॥ धर्ममार्हतमाका -ऽहन्मित्राचार्यसन्निधौ ॥ विरक्तो व्रतमादत्त, दत्तः पत्नीसुतान्वितः ॥३॥ दत्तोऽरहन्नकं स्नेहा-दिष्टैर्भोज्यैरपोषयत् ॥ कदाचिदपि भिक्षार्थ, प्रेषयामास तं न तु ॥ ४ ॥ उत्तमर्ण इवानेन, किमयं पोष्यतेऽन्वहम् ॥ समर्थोऽपि च किं भिक्षा-चर्यामेषन कार्यते ? ॥ ५॥ ध्यायन्तोऽपीति निग्रंथा, वक्तुं किमपि नाशकन् ॥ पुत्रं वा पालयन् वप्ता, निषेधूं केन शक्यते ? ॥६॥ [ युग्मम् ] निदाघसमयेऽन्येद्यु-दत्तः साधुळपद्यत ॥ तद्वियोगान्महादुःख-माससादाऽरहन्नकः ॥ ७ ॥ ततोऽन्ये | संयतास्तात-विरहातुरचेतसे ॥ तस्मै द्वित्रान् दिनान् याव-दानीयाहारमार्पयन् ॥ ८॥ अथ तं यतयोऽवोचन, भिक्षार्थ पर्यट स्वयम् ॥ नेदानी पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ॥ ९॥ दग्धोपरिष्ठात् पिटको- पमां वाचं निशम्य ताम् ॥ चचाल विमनाः सोऽथ, भिक्षायै मुनिभिः समम् ॥ १० ॥ अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः ॥ तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥ ११॥ ग्रीष्मार्ककिरणोत्तप्त-रेणुकानिकरेण सः ॥ अदह्यत पदो ढं, मौलौ च तपनांशुभिः ॥ १२ ॥ पश्चास्थितोऽन्यसाधुभ्य-स्तृषा शुष्यन्मुखाम्बुजः ॥ महेभ्यसदनच्छायां, विश्रमाय स शिश्रिये ॥ १३॥ सौभाग्यमन्मथं तं च, तत्रस्थं तद्हेश्वरी॥धनाढ्यवणिजोभार्या-ऽपश्यत्प्रोषितभर्तृका॥ अचिंतयच्च सा रूप- महो ! अस्य मनोहरम् ॥ यदृष्टमात्रमपि मे, समाकृषति मानसम् ॥ १५ ॥ तदमुं रमयित्वा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy