________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।। ५९ ॥
* तीयके ॥ १९ ॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा ॥ ततः स प्रहरे तुर्ये, परासुत्वमगान्मुनिः ॥२०॥ चत्वा
रोऽपि प्राज्यधैर्या मुनींद्राः, वर्ग प्रापुस्ते विषह्येति शीतम् ॥ इत्थं सर्वैः साधुभिस्त्यक्तकामै-स्तत्सोढव्यं मुक्तिसंयुक्तिकामैः ॥ २१ ॥ इति शीतपरीषहे साधुचतुष्ककथा ॥३॥
___ इदानीं शीतविपक्षमुष्णमिति, यद्वा शीतकाले शीतं तदनु ग्रीष्मे उष्णमिति तत्परीषहमाहमूलम्-उसिणप्परिआवेणं, परिदाहेण तजिए ॥ प्रिंसु वा परिआवेणं, सायं णो परिदेवए ॥८॥
व्याख्या-उष्णं उष्णस्पर्शयुक्तं भूरेणुशिलादि, तेन परिताप उष्णपरितापस्तेन, तथा परिदाहेन बहिः खेदमलाभ्यां वह्निना वा, अन्तश्च तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'धिंसुवत्ति' ग्रीष्म, वाशब्दात् शरदि वा परितापेन रविकिरणकृतेन तर्जित इत्यत्रापि योज्यम् , सातं सुखं प्रतीतिशेषः, नो परिदेवेत् 'हा ! कदा चन्द्रचन्दनझंझानिलादयः सुखहेतवो मम संपत्स्यन्ते' इति न प्रलपेदिति सूत्रार्थः ॥८॥ मूलम्--उण्हाभितत्तो मेहावी, सिणाणं णोवि पत्थए ॥ गायं णो परिसिंचेजा,ण वीएज्जा य अप्पयं॥९॥
व्याख्या-उष्णाभितप्तो मेधावी मर्यादावर्ती लानं जलाभिषेकं णोवि पत्थएत्ति' अपेभिन्नक्रमत्वात् नो नैव. प्रार्थयेदपि, अभिलषेदपि, कथं पुनस्तत्कुर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चेत् न सूक्ष्माम्बुबिन्दुभिरार्दीकुर्यात् , न वीजयेच तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि, किम्पुनर्बहुरिति सूत्रार्थः ॥९॥ उदाहरणञ्चात्र, तथाहि
UTR-1