SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। ५६ ।। भ्य आसाद्य, पीयूषमिव निर्जराः॥ २६ ॥ विहरन्तः सुखेनैवं, तत्कृते ब्रजिका व्रजे ॥ उल्लंघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७ ॥ ततोऽग्रे गच्छतां तेषां मध्यात्कस्यापि विण्टिकाम् ॥ खं जिज्ञापयिषुः सोऽथ तत्र व्यस्मरयत्सुरः ॥ २८ दूरं गत्वा विटिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेर्विण्टिकां तत्रा - ऽपश्यत्वां न तु गोकुलम् ॥ २९ ॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः । अवदद्विष्टिकालाभं, गोकुलादर्शनं च सः ॥ ३० ॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ ३१ ॥ अत्रान्तरे प्रादुरासीत् ससुरः कान्तिभासुरः ॥ विहाय पितरं सर्वान्, मुनीनऽन्यान्ननाम च ॥ ३२ ॥ एनं कुतो न नमसी-त्युक्तः स प्रतिभिस्ततः ॥ स्वीयं व्यतिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ ३३ ॥ सजीवाम्भोऽपि पातुं यत्तदासौ मे मतिं ददौ, तत्पूर्वभववसापि साधु रेषन वन्द्यते ॥ ३४ ॥ स्नेहादपि रिपोरेव, कार्य विहितवानसौ ॥ यद्दुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् ॥ ३५ ॥ अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् ॥ व्रतभङ्गभवात्पापा- दभ्रमिष्यं तदा भवे ॥ ३६ ॥ स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् ॥ ३७ ॥ धनशर्मसुपर्वैवमुदीर्यागात्रिविष्टपम् ॥ साधवोऽपि ततः स्थाना-द्विजहुस्ते यथासुखम् ॥ ३८ ॥ क्षुलो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः ॥ एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तः ॥ ३९ ॥ इति तृपरीषहे धनशर्ममुनि कथा ॥२॥ उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकुशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy