SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ॥ ५४॥ गतनिष्ठीवनतयाऽना, मुखं यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीषहं तितिक्षेत K सहेत, अयं भावः-एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुलंघयेत्ततस्तृट्परीषहः सोढो भवती तिसूत्रार्थः ॥ ५॥ कथासम्प्रदायश्चात्र । तथाहि___ अभूदुजयिनीपु-, धनमित्राभिधो वणिक् ॥ धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ॥१॥ गुरुवाणी समाकर्ण्य, गुरुवैराग्यवान् धनः॥ पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ॥ २॥ खस्मिन् परे च सहितो, सहितौ तौ व्रतिब्रजैः॥ प्रस्थितावेलगपुरा-ऽध्वनि मध्यंदिनेऽन्यदा ॥३॥ तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः॥ पिपासापीडितो बालः, स चचाल शनैः शनैः ॥ ४॥ मुनयोऽन्येऽग्रतो जग्मु-धनमित्रमुनिः पुनः ॥ पश्चाचचाल सुनोस्तत्-प्रेमपाशनियत्रितः॥५॥ मार्गे तत्राययौ रंग-तरंगाथ तरङ्गिणी ॥ ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमो दभाक् ॥६॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् । मदभ्यर्णे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? है|॥७॥ तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् ॥ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ ८॥ यदुक्तंall निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ॥ घनाम्बुना राजपथेऽति पिच्छिले, क्वचिद्रुधैरप्यप थेन गम्यते ॥ ९॥" मृत्युदामापदमिमां, तदुलंघ्य कथंचन ॥ पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥ १०॥ इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् ॥ नूनं मद्दर्शने पुत्रो, हिया पास्यति नोदकम् ॥ ११॥ ह्रीमान् कुर्वन्न UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy