________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।। ५३ ।।
नापि, सोढ एव परीपहः ॥ यन्नासौ प्रासुकालाभे-ऽप्यैच्छद्भोक्तुं फलादिकम् ॥ ३३ ॥ हस्तिभूतिरपि ज्ञात्वाऽऽहारलाभं सुधाशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ॥ ३४ ॥ परीषहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सह्यस्तथाऽसौ मनसाप्यदीनैः ॥ ३५॥ इति क्षुधापरीपहे हस्तिमित्रकथा ॥१॥ __ उक्तः क्षुत्परीपहः, क्षुधार्त्तस्य च शुद्धाहारार्थ पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाह
मूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लजसंजए ॥ सीओदगं ण सेविज्जा, विअडस्सेसणं चरे॥४॥ __व्याख्या-ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लज्जसंजएत्ति' लजायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत न पानादिना भजेत् , किन्तु | 'वियडस्सत्ति' विकृतस्य वह्नयादिना विकारं प्रापितस्य एषणां एषणासमितिं चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयादिति सूत्रार्थः ॥ ४ ॥ तथामूलम्-छिपणावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुकमुहद्दीणो, तं तितिक्खे परीसहं ॥५॥
व्याख्या-छिन्नोऽपगत आपातो जनसंचारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यतः 'सुपिवासिए' सुष्ठु अतिशयेन पिपासितस्तृषितः परिशुष्कमप
UTR-1