________________
उत्तराध्ययन
।। ४९ ।।
स्त्री रामा, सैव तद्गतरागहेतुगतिविलासहासचेष्टाचक्षुर्विकारकुचभाराद्यवलोकनेऽपि तदभिलापविनिवर्त्तनेन परिष- द्वितीयमध्चह्यमाणत्वात् परीपहः (८) चर्या विहारात्मिका (९) नैषेधिकी स्वाध्यायभूः (१०) शय्या उपाश्रयः (११) यनम् (२) आक्रोशोऽसभ्यभापणरूपः (१२) वधो लकुटादिभिस्ताडनम् (१३) याचना प्रार्थना (१४) अलाभो वाञ्छितवस्तुनोऽप्राप्तिः (१५) रोगः कुष्टादिः (१६) तृणस्पर्शो दर्भादिस्पर्शः (१७) जलो मलः (१८) सत्कारो वस्त्रादिभिः पूजनम् , पुरस्कारोऽभ्युत्थानादिसम्पादनम् , तावेव परीषहः ( १९) प्रज्ञा खयं विमर्शपूर्वको वस्तुपरि-2 च्छेदः (२०) ज्ञानं मत्यादि, तदभावश्चाज्ञानम् (२१) दर्शनं सम्यगदर्शनम् , तदेव विचित्रमतश्रवणेऽपि सम्यक् | | परिषद्यमाणं निश्चलतया धार्यमाणं परीषहो दर्शनपरीपहः (२२) इत्थं नामतः परीषहानुक्त्वा खरूपतो विवक्षुस्तानाह
मूलम्-परीसहाणं पविभत्ती, कासवेणं पवेइआ ॥ तं भे उदाहरिस्सामि, आणुपुविं सुणेह मे ॥ १॥ | । व्याख्या-परीपहाणां पूर्वोक्तानां प्रविभक्तिः पृथकखरूपतारूपः प्रविभागः काश्यपेन श्रीमहावीरेण प्रवेदिता | प्ररूपिता, तां परीपहप्रविभक्तिं 'भेत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः! यूयमिति शेषः, मे ममोदाहरतः सकाशादिति सूत्रार्थः ॥ १॥ इह च "छुहासमा वेअणा नत्थि” इति वचनात् परीषहाणां मध्ये क्षुत्परीपह एव दुस्सह इत्यादितस्तमाहमूलम्-दिगिंछापरिगए देहे, तबस्सी भिक्खु थामवं ॥ ण छिंदे ण छिंदावए, ण पए ण पयावए॥२॥
UTR-1