________________
उत्तराध्ययन
।। ४७ ।।
" णाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ ॥ धण्णा आवकहा जे, गुरुकुलवासं ण मुंचति ॥ १ ॥ अथ यद्भगवता द्वाविंशतिः परीषहाः सन्तीत्याख्यातं तत्किमन्यतोऽवगम्य खतो वेति शिष्यसंशयं निराकर्त्तुमाह, श्रमणेन तपखिना भगवता महावीरेण श्रीवर्द्धमानखामिना काश्यपेन काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षेण उत्पन्नकव लज्ञानतया स्वयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाताः नत्वन्योपदेशेनेति भावः, ते च कीदृशा इत्याह- 'जे भिक्खू' इत्यादि - यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्थे समाकर्ण्य, ज्ञात्वा यथावदवबुद्ध्य, जित्वा पुनः पुनरभ्यासेन परिचितान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः आश्लिष्टः प्रक्रमात्परषहैरेव नो नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीर्यन्ते हि भिक्षाटने प्रायः परीपहा इति तद्ब्रहणं, उक्तञ्च - “भिक्खायरिआए बावीसं परीसहा उईरिज्जंतित्ति" इत्युक्त उद्देशः । पृच्छामाह
मूलम् -- कयरे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेजा ॥
व्याख्या - कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालंकारे शेषं प्राग्वत् । निर्देशमाह - मूलम् — इमे खलु ते बावीसं परीसहा समणेण भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेज्जा ॥
द्वितीयमध्ययनम् (२)
UTR-1