SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ "अथद्वितीयमध्ययनम्” ।। ४६ ।। ॥ अहम् ॥ व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च खस्थावस्थैः परीषहात्तैश्च विधेय एव, अथ के नामैते परीषहाः ? इति जिज्ञासायां तत्वरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य परीयहाध्ययनस्वेदमादिसूत्रम्___ मूलम्-सुअंमे आउसं तेणं भगवया एवमकरवायं,इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेणं कासवेणं पवेइआ,जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआ परिवयंतो पुट्ठोण विहणेज्जा॥ * ___ व्याख्या-श्रुतमाकर्णितं मे मया आयुष्मन्निति शिष्यामंत्रणं, इदश्च सुधर्मखामी जम्बूस्वामिनं प्रत्याह, तेन जगत्रयप्रतीतेन भगवताऽष्टमहाप्रातिहार्यादिसमप्रैश्वर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितं, किमाख्यातमित्याह, 'इह खलुत्ति' अत्र खलुशब्दस्य एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविंशतिः परीपहाः सन्तीति गम्यते, यदिवा 'आउसंतेणंति' मया इत्यस्य विशेषणं कार्य, ततश्च आवसता आगमोक्तमर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावज्जीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy