________________
।। ४४ ।।
गुरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा यस्मिन् स मनोरुचिर्गुरुमनोनुवर्ती, न तु स्वेच्छाचारीति भावः 'चिट्ठइकम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसामाचारी, तस्याः संपत् समृद्धिः कर्मसंपत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तपसो - Sनशनादेः समाचारी समाचरणं, समाधिश्वेतः खास्थ्यं, ताभ्यां संवृतो निरुद्धाश्रवः तपःसमाचारीसमाधिसंवृतः । महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वेत्याह- पञ्च व्रतानि प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्येति सूत्रार्थः ॥ ४१ ॥ तथा
मूलम् - स देवगंधव मणुस्सप्पूइए, चइत्तु देहं मलपंक पुवयं ॥
सिद्धे वा हवइ सास देवे वा, अप्परए महिड्डिएत्तिबेमि ॥ ४८ ॥
Qishahidah dah téh éahid
उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥ १ ॥
YYYYYYON
व्याख्या-स विनीतविनेयो मुनिर्देवैवैमानिकज्योतिष्कैः, गन्धर्वैश्च गन्धर्वनिकायो पलक्षितैर्व्यन्तरभवनपतिभिर्मनुष्यैश्च नृपाद्यैः पूजितोऽर्चितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुचयंति' मलपी रक्तवीर्ये तत्पू
UTR-1