________________
उत्तराध्ययन
प्रथमाध्ययनम् (१)
।। ४३ ।।
लोके कीर्तिः सुलब्धमस्य जन्म ! निस्तीर्णो भवाब्धिरनेनत्यादिका से तस्य जायते प्रादुर्भवति, तधारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, पूज्यप्रसादनाच किं लभ्यते ? इत्याह| मूलम्-पुज्जा जस्स पसीअंति, संबुद्धा पुवसंथुआ॥ पसण्णा लाभइस्संति, विउलं अट्ठिअंसुअं॥४६॥ ___ व्याख्या-पूज्या आघार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यगज्ञाततत्वाः पूर्व वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यकस्तुता वा सद्भूतगुणोत्कीर्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमवेत्यार्थिक, श्रुतमङ्गोपाङ्गादिभेदं, अनेन पूज्यप्रसादनस्थानन्तरं फलं श्रुतलाभः, परम्परं तु मोक्ष इति सूचितमिति सूत्रार्थः ॥ ४६ ॥ अथ श्रुतावाप्तौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाह___मूलम्- स पुज्जसत्थे सुविणीअसंसए, मणीरुई चिट्टइ कम्मसंपया ॥
तवोसमायारिसमाहिसंवुडे, महजुई पंचवयाइं पालिया ॥ ४६॥ व्याख्या-स इति प्रसादितगुरोःप्राप्तश्रुतः शिष्यः, पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्टु विनीतोऽपनीतः प्रसादितगुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसःप्रस्तावा
UTR-1