SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ।। ४२ ।। पहारिणमित्यर्थः, गही अविनीतोऽयमितिनिन्दा नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न स्यादेवगुरोः कोपोत्पत्तिरिति सूत्रार्थः ॥ ४२ ॥ किम्बहुना| मूलम्-मणोगयं वक्तगयं, जाणित्तायरिअस्स उ ॥ तं परिगिज्झ वायाए, कम्मुणा उववायए॥४३॥ * व्याख्या-मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेषः, ज्ञात्वा आचार्यस्य गुरोः,तु शब्दः कायगतकार्यपरिग्रहार्थः, तत् मनोगतादि गुरुकृत्यं परिगृह्याङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तन्निष्पाद नात्मिकया, उपपादयेद्विदधीतेति सूत्रार्थः ॥ ४३ ॥ सचैवं विनीततया याक् स्यात्तदाहX मूलम्-वित्ते अचोइए णिचं, खिप्पं हवइ सुचोइए ॥ जहोवइटें सुकयं, किच्चाई कुवइ सया ॥४४॥ * व्याख्या-वित्तो विनीततया प्रसिद्धः शिष्यः 'अचोइएत्ति'अनोदितोऽप्रेरित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तते इत्य ध्याहारः, नित्यं सदा न तु कदाचिदेवेति भावः, न चायं खयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्यात् , किन्तु क्षिप्रं शीघ्रं भवति यथोचितकृत्यकारीति गम्यते, सुचोदके शोभनप्रेरयितरि गुरौ सतीति शेषः, ततश्च यथोपदिष्टं | उपदिष्टानतिक्रमेण सुष्ठु कृतं सुकृतं यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः ॥४४॥ अथोपसंहर्तुमाहमूलम्–णच्चा णमइ मेहावी, लोए कित्ती से जायइ॥ हवइ किच्चाण सरणं, भूआणंजगइ जहा॥४५॥ व्याख्या-ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कृत्यकरणं प्रति प्रतीभवति मेधावी मर्यादावर्ती, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy