________________
卐zs9
अजीवतत्त्वे शब्दादि
E
श्रीनक्तत्त्वसुमङ्गलाटीकायां॥३३॥
स्वरूपम् ॥
E
घटपटादिद्रव्याणि सुखेन दृश्यन्ते, इयं प्रभाऽपि प्रकाशपुद्गलेभ्यो विरलतया निर्झरन्ती पुद्गलसमूहाऽऽत्मिका, प्रकाशपुद्ग-1 लेभ्यो यदि विरलतया प्रभापुद्गला न निर्गच्छेयुस्तदा प्रकाशस्थितानि द्रव्याणि विलोकयितुं शक्यन्ते, परं प्रकाशस्थानादन्यत्रवत्तीनि द्रव्याणि न विलोक्यन्ते, पुनः प्रभायाः पुद्गलस्वरूपत्वं न स्यात्तदा यत्र सूर्याचन्द्रमसोर्ग्रहनक्षत्रादीनामंशवो न प्रविशन्ति तत्र गृहादिस्थानेषु निरन्तरं गाढतिमिरया निशयैव भाव्यम् , न चैवं भवति, तस्मात्तेषां प्रकाशपुद्गलानां यो रश्मिलक्षणः प्रकाशस्तस्मात् प्रकाशाद् यो निशाऽभावस्वरूपोऽन्धकाराऽभावस्वरूपो वा य उपप्रकाशः सा प्रभेत्युच्यते ॥
पुष्पदन्तयोः प्रकाशे आतपोद्योतलक्षणे आदर्श जलाद्यच्छद्रव्येषु च दृश्यमानं यत् पुद्गलप्रतिबिम्बं तच्छायास्वरूपम् । सवितृमण्डलाद्यथा पुद्गलपरिणामात्मको रश्मिप्रवाहो निसृजति तथा बादरपरिणामिपुद्गलस्कंधेभ्योऽपि प्रतिसमयं 'फुवारा' ऽऽख्यजलनिर्झर इव तदाऽऽकारकसूक्ष्मस्कंधसमुदायो निर्गच्छति, प्रतिसमयं पुद्गलस्कंधेभ्यो निर्गच्छन् स सूक्ष्मस्कंधसमुदायो दिवाकरप्रभृतीनां प्रकाशे कृष्णवर्णतया पिण्डितो भवति, यत्समुदायो लोके 'छाया' इति नाम्नोच्यते । स एव बादरपरिणामिपुद्गलस्कंधेभ्य उत्पन्नः सूक्ष्मस्कंधसमुदाय आदर्शजलादिनिर्मलवस्तूनामाश्रयं संप्राप्य यादृग्वादरपरिणामिपुद्गलस्कंधस्वरूपं साक्षात्तादृगेव तेषु तेष्वत्यच्छद्रव्येषु दरीदृश्यते यल्लोके प्रतिबिम्बनाम्ना संकीर्त्यते, अतश्छायाऽपि पुद्गलपरिणामरूपा एव । वर्तमानसमयेऽपि आङ्गलदेशीयैर्या फोटोग्राफसंज्ञिका प्रतिकृतिनिर्मितिर्निस्सारिता साऽपि छायायाः पुद्गलत्वं प्रत्यक्षीकरोति । छायायाश्च पुदलवे श्रीमद्भिर्मलयगिरिसूरिपुरंदरैः प्रज्ञापनोपाङ्गटीकायामुल्लेखो व्यधायि स चैवम् :" अथ किमात्मकं प्रतिविम्बं ? उच्यते छायापुद्गलाऽऽत्मकं, तथाहि-सर्वमैन्द्रियकं वस्तु स्थूलं चयापचयधर्म रश्मिवच्च,
-
z卐0卐८-८
-
>'
॥३३॥
ब