________________
卐0)卐
3333->卐<s9z
रश्मय इति छायापुद्गला व्यवहियन्ते ते च छायापुद्गलाः प्रत्यक्षत एव सिद्धाः, सर्वस्याऽपि स्थूलवस्तुनः छाया अध्यक्षतः प्रतिप्राणि प्रतीतेः, अन्यच्च यदि स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नाऽऽदर्शाऽदिष्ववगाढरश्मिर्भवति, ततो न तत्र दृश्यते, तस्मादवसीयते सन्ति छायापुद्गला इति । ते च छायापुद्गलास्तत्तत्सामग्रीवशाद् विचित्रपरिणमनस्वभावास्तथाहि;ते छाया पुद्गला दिवा वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमाबिभ्राणाः श्यामरूपतया परिणमन्ते निशि तु कृष्णाऽऽभाः, एतच्च प्रसरति दिवसे सूर्यकरनिकरे निशि तु चन्द्रोद्योते प्रत्यक्षत एव सिद्धम् , त एव छायापरमाणव
आदर्शादिभाखरद्रव्यप्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमादधाना यादृग्वर्णः स्वसम्बधिनि द्रव्ये कृष्णो नीलः सितः | पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शाऽऽदिष्वध्यक्षतस्सिद्धम्" इति ॥ तत्त्वार्थवृत्तावप्युक्तम्-"कथं पुनर्दर्पणतलादिषु प्रतिबिम्ब मुखादीनां सम्मुखमेव छायाऽऽकारेण परिणमते, न पराङ्मुखं, कथं वा कठिनमादर्शमण्डलं प्रतिभिद्य मुखतो विनिर्गताः पुद्गलाः प्रतिबिम्बमाजिहत इति, यत्तावदुच्यते सम्मुखमेव प्रतिबिम्बमुदेति नान्यतो मुखमिति तत्र परिणामः स तादृशः पुद्गलानाम् , नहि तद्विषयः पर्यनुयोगः कर्तुं शक्यः, को हि नामाभिदध्यात् प्रेक्षापूर्वकारी पयः किमिति दध्यादित्वेन परिणमते तृणगोभक्ष्यादयो वा क्षीरादित्वेनेति, किमत्र युक्त्या, तथा हि तं पश्यामो न च दृष्टेः किश्चिदनुपपअम् , उपहास्यश्चैवमाचक्षाणो भवति, केन हेतुना वा चक्षू रूपं गृह्णाति, तस्मान्न परिणामः पर्यनुयोगार्हः, येषामपि न परिणामस्तेषामपि मुखाद्याश्रित्याऽनेक कारणं प्रतिबिम्बोत्पादः सप्रतिघस्तेनाऽऽकारेण भवति नाऽन्येनेति तुल्यः पर्यनुयोगो विधेयः, प्रतिभेदः पुनः कठिनशिलातलपरिश्रुतजलेनाध्यस्पिण्डेऽग्निपुद्गलप्रवेशेन शरीरात प्रस्वेदवारिलेशनिर्गमनेन व्याख्येयः
<yz卐09
-卐