SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीनवतच्च - || या 175555 A सुमङ्गलाटीकायां- v ॥ ३४ ॥ A T A בן S प्रतिबिम्बोदयः शुचौ दृणेऽन्यत्र वा, अतछायादयः पुद्गलपरिणतिविशेषाः " इति दिवाकरविमानादुत्पद्यमानो य उष्णप्रकाशः स आतपः, सूर्यस्य विमानं स्वतः शीतं, तथाऽपि वक्ष्यमाणस्वरूपस्याऽऽतपनामकर्म्मण उदयेन विमानस्थानां पृथिवीकायिकजीवानां प्रकाश उष्ण स्वरूपो भवति य आतप आतापो वा उच्यते । अयमातपः सूर्येन्द्रस्य न विद्यते किन्तु आतपनामकम्र्मोदयभाजां बादरपृथिवीकायिकजीवानां पिण्डात्मकस्य सूर्यविमानस्य । उष्णप्रकाशाऽऽत्मकोऽयमातपः सूर्यविमानस्थपृथिवीकायिकजीवानां पुद्गलस्वरूपेभ्य औदारिकशरीरेभ्यः पुद्गलप्रवाहस्वरूपतया निर्गच्छति, तस्माद्यत आतप उत्पद्यते स पुद्गलः आतपोऽपि पुद्गललक्षणः, यादृक्कार्यं यत्स्वरूपं च कारणं कार्यमपि A तादृक् तत्स्वरूपमेव, ततस्सिध्यति आतपस्य पुद्गलत्वम् ॥ यदुक्तं “ आतपोऽपि तापकत्वात् स्वेदहेतुत्वादुष्णत्त्वादग्निवत् पुद्गलपरिणामजः " ।। 凯 N G वर्णोऽपि पुद्गलस्य लक्षणम् | पुद्गलद्रव्यं विरहय्य न वर्णादयोऽवतिष्ठन्ते, वर्णश्च कृष्ण-नील रक्त-पीत - श्वेतभेदभिन्नः, ह पञ्चवर्णव्यतिरिक्ताऽन्ये वर्णाः पूर्वोक्तपञ्श्चवर्णाऽन्यतरयोर्व्यादिकयोर्वणर्योर्मिलनेन सञ्जायन्ते, अतस्ते वर्णास्सान्निपातिका उच्यन्ते । आधुनिकवैज्ञानिकास्तु रक्त-पीत - नीलाऽऽख्यान् त्रीन् वर्णानेव मुख्यतयाऽन्यश्च वर्णान् सान्निपातिकतया श्रद्ध व्याचक्षन्ते परं तत् सर्वज्ञाऽऽगमविरोधि, तस्मादुपेक्षितव्यम् । एते वर्णादयो न द्रव्यस्वरूपाः किन्तु पुद्गलद्रव्यवर्त्तिगु- A णलक्षणाः, वर्णरसादीनां मूर्त्तद्रव्याऽऽधारत्वात् मूर्त्तत्त्वं स्फुटं यतो धर्म्माऽधर्म्माऽऽकाशप्रभृतिद्रव्यषङ्के एकं पुद्गलद्रव्यं मूर्त्ति १ जीवद्रव्यस्या मूर्त्तत्त्वं तु तस्य शुद्धस्वरूपाऽपेक्षया ज्ञेयम् ॥ U Inal अजीवतत्त्वे शब्दादि पुद्गल स्वरूपम् ॥ ॥ ३४ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy