________________
3
<9
-卐>卐
मदन्यानि सर्वाण्यप्यमूर्त्तानि, वर्णादयश्चेन्द्रियादिकरणैस्तेषु तेषु पुद्गलद्रव्येषु प्रत्यक्षमुपलभ्यन्ते, अतः कारणात्तान् वर्णादीन पुद्गलस्य लक्षणत्त्वेन बुधा जगदुः। पुद्गलद्रव्यस्थितः कृष्णवर्णाद्यात्मको गुण एकगुणाधिको द्विगुणाधिकखिगुणाधिकस्संख्यगुणाऽधिकोऽसंख्यगुणाऽधिकोऽनन्तगुणाधिक इत्याद्यनन्तभेदभिन्नः, अल्पाधिकतारतम्येनाऽनन्तभेदयुक्त इत्यर्थः ? तथाहिः लोकवर्तिनिखिलपरमाणुषु परमाणुसमूहजन्यद्विप्रदेशिस्कंधप्रभृत्यनन्तप्रदेशिस्कन्धपर्यन्तेषु च वर्णास्तिष्ठन्ति, तत्र जगति ये केचित्परमाणवस्तेषु प्रतिपरमाणु वर्णपञ्चकमध्यादेकतमो वर्णोश्यं भवति, यस्मिन् परमाणौ विवक्षितसमये यो वर्णो दृष्टः स वर्णो नैरन्तर्येण न भवति, कालाऽन्तरेण वर्णाऽन्तरत्वं नियमेनोपजायते, जघन्यतः समयाऽन्तरे उत्कृष्टस्त्वसंख्यसमयाऽनन्तरं वर्णस्य परिवर्तनं सञ्जायते, अनेनेदमपि विज्ञायते यत् प्रतिपरमाणु प्रकटतयैकेन वर्णेन भूयते, परं सत्ताऽपेक्षया | तु पञ्चभिरपि वर्णैस्तत्र स्थीयतेः स्कन्धेषु तु निश्चयनयेन पञ्चवर्णास्सम्भवन्ति, व्यवहारेण यस्य वर्णस्य बाहुल्यं तद्वर्णवान् स स्कन्धः प्रोच्यत इति ॥
घ्राणेन्द्रियगोचरो यो गन्धः सोऽपि पुद्गलस्य लक्षणतया व्याख्यातः, यतो नहि धाऽधादिष्वमूर्त्तद्रव्येषु तस्य सम्भवः, पुद्गलं विहाय नाऽन्यत्र गन्धस्य सद्भावः, एतादृक् पुद्गलद्रव्यमपि न विद्यते यत्र गन्धस्याऽभावत्वं स्यात्, ततो गन्धः पुद्गलस्य लक्षणम् । अयं गन्धो द्विधा-जनानामानन्दप्रदः सुगन्धः, विप्रियश्च दुर्गन्धः, प्रतिपरमाणु प्रकटतया द्वयोर्गन्धयोर्मध्ये एकतरो भवति, सत्ताऽपेक्षया तु द्वावपि, कालाऽन्तरे तयोः परावर्तनं जायते, यदा सुगन्धस्याऽऽविर्भावस्तदा दुर्गन्धस्य तिरोभावः, यदा दुर्गन्धस्याऽऽविर्भावस्तदा सुगन्धस्य तिरोभावित्वमवसेयं, स्कंधेषु तु समकालं द्वावपि स्तः, यस्य
50卐yzsoyर
>卐
-
»卐<