________________
अजीवतत्त्वे शब्दादि
श्रीनवतत्त्वसुमङ्गलाटीकायां॥३५॥
स्वरूपम् ॥
बाहुल्यं तद्गन्धवान् स्कन्धो निगद्यते, एवं वर्णस्वरूपमिव निःशेषं विज्ञेयम् ॥
रसनेन्द्रियगोचरस्तिक्त-कट्वाऽऽम्ल-कषाय-मधुरादिभिन्नो यो रसः सोऽपि पुद्गलस्य लक्षणत्वेनोररीक्रियते लब्धवर्णैः, पुद्गलद्रव्यं विरहय्याऽन्यत्र द्रव्येष्वस्य रसस्याऽसम्भव एव । परमाणौ स्पष्टतयैको रसः सत्ताऽपेक्षया तु रसपश्चकमपि, स्कंधेषु तु पश्चानामपि निश्चयेन सम्भवः, यस्याऽऽधिक्यं तस्य प्राधान्यं बोध्यम् । द्विगुणाधिकत्त्व-संख्येयगुणाधिकत्त्वा-ऽसंख्येयगुणाऽधिकत्त्वाऽनन्तगुणाधिकत्त्वहीनत्वादितारतम्यं तु सर्वेष्वपि स्कन्धेषु वरसगन्धस्पर्शाऽपेक्षयोह्यं स्वधिया ॥
स्पर्शनेन्द्रियग्राह्यो यो विषयः स स्पर्शाऽभिधानः, स च शीतोष्ण-स्निग्धरूक्ष-गुरुलघु-मृदुकर्कशभेदैरष्टप्रकारः, अमी शीताऽऽदयस्पर्शा धर्माऽस्तिकायाऽऽदिषु द्रव्येषु न भवन्ति, अमृतत्त्वात्तेषां, स्पर्शाश्च गुणाः, गुणवेन साऽऽधारेणैव भवितव्यं तैः, ततः पुद्गलद्रव्यमेव तेषामधिकरणं, ते च स्पर्शादयस्तस्य पुद्गलद्रव्यस्य लक्षणभूताः, यतो नहि पुद्गलद्रव्यं विरहय्याऽन्यत्र तेषां स्थितिः। प्रतिपरमाणु समकालं शीतोष्ण-स्निग्धरूक्षस्पर्शेभ्यः परस्पराविरोधिनी द्वौ स्पर्टी भवतः। यथा शीतस्निग्धी, शीतरूक्षौ, उष्णस्निग्धौ, उष्णरूक्षौ वा, भिन्नभिन्नकालाऽपेक्षया सत्ताऽपेक्षया वा शीतोष्णस्निग्धरूक्षाख्याश्चत्वारोऽपि स्पर्शाः सम्भवन्ति । तथा चोक्तं श्रीतत्त्वार्थटीकायां:-" अष्टविधः स्पर्शो भगवद्भिरुक्तः स्कन्धेषु यथासम्भवं, परमाणुषु पुनश्चतुविधः स्पर्शो नाऽन्यः, स च शीतोष्णस्निग्धरूक्षाख्यः, तत्राऽप्येकपरमाणौ परस्पराविरोधिद्वयं समस्ति" इति । बृहच्छतके तु लघुमृदुस्पर्शावपि परमाणौ अपरावृत्तिभावेनाऽवस्थितौ इत्युक्तं, अतस्तेषां मते परमाणुषु युगपच्चतुर्णामपि स्पशानां संभवः सञ्जातः, सत्ताऽपेक्षया योग्यतया वा पद स्पर्शा अपि । तथा औदारिकवर्गणार्वाग् व्यणुकादिस्कंधेषु समकालं चत्वारः स्पर्शाः,
09-9卐卐zy0卐-)
॥३५॥