SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ तत औदारिकवैक्रियाऽऽहारकवर्गणायोग्यपुद्गलस्कंधेष्वष्टस्पर्शाः सम्भवन्ति, ततोऽप्यग्रवर्त्तिन्यस्तैजस-भाषा-ऽऽनप्राण-मनः| A| कार्मणवर्गणाश्चतुःस्पर्शाऽऽत्मिकाः सूक्ष्मपरिणामपरिणताश्चेति ॥ इत्येवं लेशतो व्याख्याताश्शब्दाऽन्धकारोद्योतप्रभाछायाऽऽतपाः पुद्गलविकाराऽऽत्मका वर्णरसगन्धस्पर्शाश्च पुद्गलस्थितगुणस्वरूपा भावनीयाः ॥११॥ एवं पुद्गलस्य विकाराऽऽत्मकं गुणाऽऽत्मकञ्च लक्षणं प्रतिपाद्याऽथ कालस्य भेदाऽत्मकं लक्षणं द्वाभ्यां गाथाभ्यां प्रदश्यतेएगाकोडिसतसट्ठि, लक्खा सत्तहुत्तरी सहस्सा या दोयसया सोलहिया, आवलिया इग मुहुत्तम्मि॥१२॥ टीका:-'एगे' ति—एकाकोटी सप्तपष्टिलक्षाः सप्तसप्ततिसहस्रा द्वे शते पोडशाऽधिक संख्याका आवलय एकस्मिन् मुहर्ने सञ्जायन्ते ॥ १२ ॥ समयाऽऽवलीमुहुत्ता, दीहा पक्खा य मास वरिसा य। भणिओ पलिया सागर, उसप्पिणि सप्पिणि कालो ॥१३॥ ____टीका; 'समये' त्ति-समयः परमनिकृष्टकालः, पुद्गलेषु यथा परमाणुर्निर्विभाज्यविभागस्वरूपस्तथा कालद्रव्ये समT| योऽपि निर्विभाज्यभागाऽऽत्मकः, समयान्नास्ति सूक्ष्मः कालः, असंख्यैः समयैरेकाऽऽवलिका, षट्पञ्चाशदधिकद्विशताऽऽवलि काभिरेकः क्षुल्लकभवः, पत्रिंशदधिकपञ्चशतपञ्चषष्टिसहस्रक्षुल्लकभवरेकं मुहूर्त घटिकाद्वयप्रमाणं, त्रिंशद्भिर्मुहूत्तैर्दिवसः, पश्चदशभिर्दिनैरेकः पक्षः, द्वाभ्यां पक्षाभ्यां मासः, द्वादशभिर्मासैवर्षः, असंख्यवर्षात्मकं पल्योपमं, दशकोटाकोटीपल्योपमैरेकं सागरो 卐z卐>卐卐-卐 卐.卐ध卐yz卐0卐卐-धर >y
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy