SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Z श्रीनवतत्त्व सुमङ्गलाटीकायां॥३६॥ अजीवतत्त्वे कालवर्णनम् ॥ र पमम् , दशकोटाकोटीसागरोपमपरिमिता एका उत्सर्पिणी, उत्सर्पिणीतुल्यास्त्ववसर्पिणी, एषः सर्वोऽपि कालः सूर्यगतिक्रियापरिच्छियो ज्ञातव्य इति संक्षेपार्थः।। व्यासार्थस्त्वयम्-कालो निश्चयव्यवहारभेदाभ्यां द्विविधस्तत्र वर्तनादिपर्यायलक्षणो वर्त्तमानसमयमात्रप्रमाणो वा नैश्चयिकः कालः प्राग्व्यावर्णितस्वरूपः, समयाऽऽवलिकामुहूर्तादिमेदभिन्नो व्यवहारकालः पुष्पदन्तयोर्नियतया गत्या परिमीयते, यतो दिवस-तिथि-मास-वर्षादीनामुत्पत्तियॊतिष्चक्रस्य परिभ्रमणेनैव सञ्जायते, तत्र यस्य कालस्याऽथ विभागो न भवेदेतागत्यन्तसूक्ष्मकालः स समयः, यथा कश्चिद्वीर्यवान् युवा निशितभल्लस्य तीक्ष्णधारया कमलानां शतं युगपदेव छिनत्ति, तत्र छेदनसमये पत्रात् पत्रान्तरं गच्छतो भल्लस्याऽसंख्यातसमयाः संजायन्त इति ज्ञानिना दृष्टम् । वीर्योदग्रो जीवस्त्वेवं मनसि हर्षायते यन्मया क्षणमात्रेणैतत् कमलानां शतं छिन्नं, परं तत्रापि पूर्वोक्तरीत्याऽसंख्यातसमयाऽऽत्मकः | कालो भवति । यद्वा कस्यचिजीर्णतमस्य वाससो विदारणे तन्तोस्तन्त्वान्तरस्य यद् विदारणं तत्राऽप्यसंख्यातसमया भवन्ति, | निर्विभाज्यभागलक्षणः परमनिकृष्टः कालः स समयनाम्ना सर्वज्ञसमये निगद्यत इति तत्त्वम् । पूर्वोक्तस्वरूपैरसंख्यातसमयैरेका आवलिका निष्पद्यते, एकस्यामावलिकायामसंख्यातसमयास्संभवन्तीत्यर्थः, केषाञ्चित्सूक्ष्मनिगोदजीवानामायुः षट्पञ्चाशदधिकशतद्वयाऽऽवलिकाप्रमाणं, तस्मात् स क्षुल्लकभव इति प्रोच्यते, लोकवर्तिजीवानामायुः क्षुल्लकभवान्न्यूनं न विद्यते । ४४४६३४७३ आवलिकानामेकःप्राणोऽथवा श्वासोच्छ्वासो निष्पद्यते, अत्र निरामयस्य यूनः पुरुषस्य यः श्वासोच्छ्वासः स प्राणत्वेन विज्ञेयः, सामयस्य तु नियतत्त्वाऽभावान्न गण्यते, तथा चोक्तं;-"हट्टस्स अणवगल्लस्स, निरुवकिट्ठस्स जंतुणो। एगे ऊसासनीसासे एस पाणुत्ति वुच्चइ" ॥१॥ सप्तभिः प्राणैरेकस्स्तोकः, सप्तभिस्स्तोकैरेको लवः, लवानां सप्तसप्तत्या एको मुहूर्तः, 卐yyz卐y- i卐<卐-> 卐 ॥३६॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy