SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ >卐<5-99-959z卐 एकस्मिन् श्वासोच्छ्वासरूपे प्राणे साधिकसप्तदशक्षुल्लकभवानां निष्पत्तिः, एकस्मिन् मुहूर्ते तु षट्त्रिंशदधिकपञ्चशताऽतिरिक्तपञ्चपष्टिसहस्रसंख्याकाः (६५५३६) क्षुल्लकभवा भवन्ति, तथा च प्रत्यपादि बृहत्संग्रहण्यां;-"पणसद्विसहस्सपणसय छत्तीसा इगमुहूत्तखुड्डभवा । आवलियाणं दोसय छपन्ना इग खुड्डभवे" ॥१॥ पुनर्नवसमयादारभ्य समयन्यूनमुहूर्त्तयावत् सर्वोऽपि कालोऽन्तर्मुहूर्ताऽभिधानः, अतोऽन्तर्मुहर्त्तमप्यसंख्यप्रकारं, नवसमयपरिमितं जघन्यं, दशसमयादारभ्य द्विसमयोनमुहूर्त यावन् मध्यमं, समयोनमुहूर्त्तप्रमाणमुत्कृष्टम् ।। पुनरिदं मुहूर्त चन्द्रमुहूर्त्त-सूर्यमुहूर्त्तभेदाभ्यां द्विधा, लोके तु त्रिंशन्मुहूर्तात्मको दिवस इति यद्व्यवहियते तत्र चान्द्रमुहत्तैरेव व्यवहारः, किश्चिन्यूनसार्धत्रयोदश (१३६) चान्द्रमुहूत्रेकं सूर्यमुहूर्त निष्पद्यते, अनेन सूर्यमुहूर्तेण लोके व्यवहारो न प्रचलति । त्रिंशद्भिश्चान्द्रमुहूतैरेको दिवसः सञ्जायते, सोऽपि चान्द्रदिवससौरदिवसभेदाभ्यां द्विविधः, तत्र त्रिंशन्मुहूर्त्तप्रमाणः षष्टिघटिकापरिमितो वा दिवसः स सूर्यदिवसाऽख्यः, किश्चिदधिक साधैकोनत्रिंशन्मुहूर्त्तप्रमाणा चन्द्रकलानां हानिवृद्धिभ्यामुत्पद्यमाना या तिथिः स चान्द्रदिवसः, लोके सूर्यदिवसोऽहोरात्रनाम्ना चान्द्रदिवसश्च तिथित्त्वेन भण्यते । एकस्मिन् पक्षे पञ्चदशदिनानि पञ्चदशनिशाश्च भवन्ति, पूर्वव्यावर्णितस्वरूपैः पञ्चदशदिनैरेकः सूर्यपक्षः, पञ्चदशतिथिभिश्चैकश्चान्द्रपक्षः, लोकैस्तु चान्द्रपक्षेनैव व्यवहारो विधीयते । द्वाभ्यां पक्षाभ्यामेको मासः, सोऽपि पञ्चविधस्तद्यथा-त्रिंशद्भिरहोरात्रैरेक ऋतुमासोऽथवाऽपरनाम्ना कर्ममासः, २९६३ अहोरात्राणामेकचान्द्रमासः, २७३१ अहोरात्राणामेको नक्षत्रमासः, ३१३३४ अहोरात्राणामेकोऽभिवर्धितमासः, (सार्धत्रिंशदहोरात्राणामेक: सूर्यमासः, लोकैस्तु २९३३ अहोरात्राणां संपूर्णत्रिंशत्तिथिस्वरूपो यश्चान्द्रमासस्तेनैव व्यवहियते, तथा षड्भिर्मासैरेकं सूर्या
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy