________________
N
श्री नवतत्त्व
सुमङ्गला
टीकायां
A
sयणं, तदपि त्र्यशीत्यधिकशताऽहोरात्रप्रमाणं, सूर्यायणं दक्षिणायनोत्तरायणात्मकभेदाभ्यां द्विधा विभक्तम् । चान्द्रायणं तु १३ अहोरात्राणां भवति, परं लोकव्यवहारे चान्द्रायणस्य न विद्यते प्रयोजनम्, सूर्यायणमेव व्यावहारिकम् । तथा द्वादशभिर्मासैरेकः संवत्सरः, सोऽपि मासभेदवत् पञ्चधा, तद्यथाः - ३६० अहोरात्राणामेकः ऋतुसंवत्सरः कर्म्मसंवत्सरो वा, ३६६ अहोरात्राणामेकः सौरसंवत्सरः, ३५४३३ अहोरात्राणामेकश्चान्द्रसंवत्सरः, ३२७६७ अहोरात्राणामेको नक्षत्रसंवत्सरः, ॥ ३७ ॥ ३८४६३ अहोरात्राणामेकोऽभिवर्धितमाससंवत्सरः । तथा पञ्चभिः सौरवर्षैरेकं युगं, चतुरशीतिलक्षसंवत्सरैरेकं पूर्वाङ्गं, चतुरशीतिलक्षपूर्वाङ्गैः ( ७०५६०००००००००० सौरसंवत्सरैः ) एकं पूर्व, चतुरशीतिलक्षपूर्वैरेकं त्रुटिताङ्गम्, एतत्प्रमाणमायुरासीत् श्रीयुगादिजिनेशस्य । चतुरशीतिलक्षत्रुटिताङ्गैरेकं त्रुटितं, इत्येवमडडाङ्गाऽ- डडाऽ-ववाङ्गाऽ- वव-हुहुकाङ्ग—हुहुकउत्पलाङ्ग-उत्पल–पद्माङ्ग - पद्म-नलिताङ्ग - नलिन - अर्थनिपुराङ्ग - अर्थनिपुर-अयुताङ्ग - अयुत - नयुताङ्ग - नयुत - प्रयुताङ्ग - प्रयुत - चूलिकाङ्ग - चूलिका - शीर्षप्रहेलिकाङ्ग - शीर्षप्रहेलिका इति सर्वसंख्या: पूर्वपूर्वसंख्याऽपेक्षया चतुरशीतिलक्षगुणिता ज्ञेयाः, सिद्धान्तैतत्पर्यन्ता संख्यामर्यादा प्रदर्शिता, इतोऽग्रवर्त्तिन्यः संख्याः पल्योपमसागरोपमाद्यभिधाः, ताश्च पल्यस्योपमानेन प्रदर्श्यन्ते, तच्चैवम् ;-धान्यपल्यवत्पल्यस्तेनोपमा यस्य कालप्रमाणस्य तत् पल्योपमम्, तत्रिधा - उद्धारपल्योपमम्, अद्धापल्योपमम्, क्षेत्रपल्योपमञ्च, तत्र वालाऽग्राणां तत्खण्डानां वा प्रतिसमयमुद्धरणमुद्धारस्तद्विषयं तत्प्रधानं वा पल्योपममुद्धारपल्योपमं १ | अद्धा कालः स च प्रस्तावाद्वालाऽग्राणां तत्खण्डानां वोद्धरणे प्रत्येकं वर्षशतलक्षणस्तत्प्रधानमद्धापल्योपमम् २ | क्षेत्रमाकाशप्रदेशरूपं तत्प्रधानं क्षेत्रपल्योपमम् ३ । पुनरेकैकं द्विधा, बादरं सूक्ष्मञ्च तत्राऽऽयामविस्तराभ्यामवगाहेन चोत्सेधा
A 品
V
T
<5> <
A
V
U
ड
M
A
A
ड
L
A
21
अजीवतस्त्वे
कालब
र्णनम् ॥
॥ ३७ ॥