SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ >yzy > इङ्गलनिष्पन्कयोजनप्रमाणो वृत्तत्त्वाच्च परिधिना किश्चिन्यूनपड्भागाधिकयोजनत्रयमानः पल्यो मुण्डिते शिरसि एकाहा द्वाभ्यामहोभ्यां यावदुत्कर्षतस्सप्तभिरहोरात्रैः प्ररूढानि यानि वालाग्राणि तैः प्रचयविशेषानिबिडतरमाकीर्णं तथा भ्रियते यथा तानि वालाग्राणि वह्निर्न दहति, वायु पहरति, जलं न कोथयति, ततः समये समये एकैकवालाग्राऽपहारेण यावता कालेन स पल्यः सकलोऽपि सर्वाऽऽत्मना निर्लेपो भवति, तावान् कालः संख्येयसमयमानो बादरमुद्धारपल्योपमम् , एतेषां च दशकोटिकोट्यो बादरमुद्धारसागरोपमम् , महत्त्वात् सागरेण समुद्रेणोपमा यस्येति कृत्त्वा, बादरे च प्ररूपिते सूक्ष्मं सुखाऽवसेयं स्यादिति बादरोद्धारपल्योपमसागरोपमयोर्निरूपणं, न पुनरनयोर्निरूपणेऽन्यद्विशिष्टफलमस्ति, एवं वादरेष्वद्धा-क्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यम् । तथा एकैकस्य वालाऽग्रस्याऽसंख्येयानि खण्डानि कृत्वा पूर्ववत्पल्यो भ्रियते, तानि च खण्डानि द्रव्यतः प्रत्येकमत्यन्ताच्छलोचनछमस्थो यदतीव सूक्ष्म पुद्गलद्रव्यं चक्षुषा पश्यति तदसंख्येयभागमात्राणि, क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रेऽवगाहते ततोऽसंख्येयगुणानि, बादरपर्याप्तपृथिवीकायिकशरीरतुल्यानीति वृद्धाः, ततः प्रतिसमयमेकैकखण्डाऽपहारेण सकलो निर्लेप कालः संख्येयवर्षकोटिप्रमाणः सूक्ष्ममुद्धारपल्योपम, तद्दशकोटीकोट्यः सूक्ष्ममुद्धारसागरोपमम् , आभ्याश्च सूक्ष्मोद्धारपल्योपमसागरोपमाभ्यां द्वीपाः समुद्राश्च मीयन्ते । तथा वर्षशते वर्षशतेऽतिक्रान्ते पूर्वोक्तपल्यादेकैकवालाग्राऽपहारेण निर्लेपकालः संख्येयवर्षकोटीमानो बादरमद्धापल्योपम, तद्दशकोटीकोट्यो चादरमद्धासागरोपमम् । तथैव वर्षशतेन वर्षशतेन एकैकवालाग्राऽसंख्येयतमखण्डाऽपहारेण निर्लेपनाकालोऽसंख्यातवर्षकोटीमानः सूक्ष्ममद्धापल्योपमं, तद्दशकोटीकोट्यस्मूक्ष्ममद्धासागरोपमम् , तद्दशकोटीकोव्योऽवसर्पिणी, एतावत्प्रमाणा उत्सर्पिण्यपि, उत्सर्पिण्यवसर्पिण्योर्द्वयोरेकं 4卐z0'' <卐-卐>卐- i>
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy