________________
zyg
श्रीनवतत्त्वसुमङ्गलाटीकायां॥३८॥
अजीवतत्त्वे षडारकस्वरूपम् ॥
>
<
| कालचक्रं, अनन्तानि कालचक्राण्येकः पुद्गलपरावर्त्तः, अनन्ताः पुद्गलपरावर्ता अतीताद्धा, तथैवाऽ नागताद्धाऽपि । आभ्यां च सूक्ष्माद्धापल्योपमसागरोपमाभ्यां सुरनारकनरतिरश्चां कर्मस्थितिर्भवस्थितिः कायस्थितिश्च मीयते । तथा प्राग्वत् पल्याद्वालाअस्पृष्टनभप्रदेशानां प्रतिसमयमेकैकाऽपहारेण( स्पृष्टनभःप्रदेश निर्लेपनाकालोऽसंख्येयोत्सर्पिण्यवसर्पिणीमानो बादरं क्षेत्रपल्योपम, तद्दशकोटीकोट्यो बादरं क्षेत्रसागरोपम, तथैवाऽसंख्यातखण्डीकृतवालाग्रैः स्पृष्टानामस्पृष्टानां च नमःप्रदेशानां प्रतिसमयमेकैकाऽपहारेण निर्लेपनाकालो बादरासंख्येयगुणकालप्रमाणं सूक्ष्मक्षेत्रपल्योपमम् , प्राग्वत् तद्दशकोटीकोट्यः सूक्ष्मक्षेत्रसागरोपमञ्च, एताभ्यां सूक्ष्मक्षेत्रपल्योपमसागरोपमाभ्यां प्रायो दृष्टिवादे प्रमाणचिन्तायां प्रयोजनं सकृदेव नाऽन्यवेति ।। इति पल्योपमसागरोपमस्वरूपम् ।। उक्तस्वरूपैर्दशकोटाकोटीसूक्ष्माद्धासागरोपमैरेका उत्सर्पिणी, तावत्प्रमाणा चेकाsवसर्पिणी, एकैकस्यामुत्सर्पिण्यामवसर्पिण्याश्च षडारकाः सन्ति, तत्रादावसर्पिण्यां तावत् प्रथम: सुपमसुषमनामक आरकश्चतु:कोटाकोटीसागरोपमप्रमाणः, सुषमाख्यो द्वितीयाऽऽरकः त्रिकोटाकोटीसागरप्रमाणः, सुषमदुःषमाह्वस्तृतीयाऽऽरको द्विकोटाकोटीसागरोपममान:, दुम्पमसुपमसंज्ञश्चतुर्थाऽऽरको द्विचत्वारिंशद्वर्षसहस्रन्यूनैककोटाकोटीसागरोपममान:, दुषमनामा पञ्चमाऽऽरक एकविंशतिवर्षसहस्रपरिमितः, पष्ठो दुःपमदुषमनामाऽपि तावद्वर्षप्रमाणः, एवमुत्सर्पिण्यामपि आरकपदकं विज्ञेयं, नवरं तत्र व्युत्क्रमेण आरका भवन्ति, यथा प्रथमो दुःषमःषमः, द्वितीयो दु:षम इत्यादि । उत्सर्पिणीकाल: श्रीमेधायुर्वेलादिभिः क्रमेण वर्धमानः, अवसर्पिणीकालश्च तैरेव लक्ष्मीमेधाऽऽयुर्बलादिभिः क्रमेण हीयमानः । उत्सर्पिण्यवसपिणीसमुदायाऽऽत्मको विंशतिकोटाकोटीसागरोपमप्रमाणः कालः कालचक्राऽभिधानः सिद्धान्ते प्रोच्यते । गाथाऽन्तर्वी यः
10卐卐ध卐zy)
-
-卐>卐
॥३८॥