________________
zy
>
>
कालशब्दस्तेन ' कालचक्रम् ' इत्यर्थो गृह्यते, समयपर्यायः कालोऽपि गृह्यते च । उक्तश्चाऽऽचार्यपुरंदरेहेमचन्द्रपादैः"कालो द्विविधोऽवसर्पिण्युत्सर्पिणी विभेदतः । सागरकोटिकोटीनां विंशत्या स समाप्यते ॥१॥ अवसर्पिण्यां पडरा, उत्सपिण्यां त एव विपरीताः । एवं द्वादशभिररैर्विवर्तते कालचक्रमिदम् ॥ २॥ तत्रैकान्तसुषमारश्चतस्रः कोटिकोटयः । सागराणां सुषमा तु तिस्रस्तूत्कोटिकोटयः ॥ ३ ।। सुषमदुःपमा ते द्वे, दुःषमसुषमा पुनः। सैका सहस्रैर्वर्षाणां द्विचत्वारिंशतोनिता ॥४॥ अथ दुःषमैकविंशतिरब्दसहस्राणि तावती तु स्यात् । एकान्तदुःषमाऽपि घेतत्संख्याः परेऽपि विपरीताः ॥५॥ प्रथमेऽरत्रये माखिद्येकपल्यजीविताः । त्रिव्येकगव्यूत्युच्छायास्त्रिव्येकदिनभोजनाः ॥ ६ ॥ कल्पद्रुफलसंतुष्टाश्चतुर्थे त्वरके नराः। पूर्वकोट्यायुषः पञ्चधनुःशतसमुछ्रयाः ॥ ७॥ पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुछयाः॥८॥ एकान्तदुःखप्रचिता उत्सर्पिण्यामपीदृशाः। पश्चानुपूर्व्या विज्ञेया अरेषु किल षट्स्वपि ॥९॥" इति । अथवाऽतीताऽनागतवर्तमानभेदेत्रिविधोऽपि कालः, तत्राऽतीताऽनागतावनन्तसमयाऽऽत्मकौ, वर्तमानस्त्वेकसमयाऽऽत्मका, अतीतकालाऽपेक्षयाऽनागतकालोऽनन्तगुणः, अथवा द्वाबप्यनागताऽतीतौ तुल्याविति । मतव्ययमपि भिन्नभिन्नयुक्त्या सम्यग् भाति, तत्त्वं तु केवलिगम्यम् ॥
उक्तस्वरूपोऽयं व्यावहारिककालोऽमूर्तः सार्धद्वयद्वीपाऽन्तर्वती एव, यतो न सार्धद्वयद्वीपबहिर्भूतं ज्योतिष्चक्रं भ्रमणात्मिकां गतिक्रियां कुरुते, कालस्य समयाऽन्तर्मुहूर्तादिपरिवर्त्तनं तु ज्योतिष्चक्रभ्रमणपरिच्छिन्नम् , तस्मात् सार्धद्वयद्वीपबहिवेर्तिषु द्वीपसमुद्रेषु मास-संवत्सरा-ऽयन-युगादिव्यवहारो न प्रचलति, यत्र कुत्रचिद्दिवसस्तत्र नैरन्तर्येण दिवसः, यत्र
39sz9095
-
<! -
>