SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां॥३९॥ अजीवतत्त्वे | द्रव्याणां परिणामिस्वादि वर्णनम् ॥ >卐卐-卐>卐-卐卐卐卐zy रात्रिस्तत्र रात्रिरेव, ततः सर्वद्वीपसमुद्रेषु देवलोकेषु सप्तसु नरकपृथ्वीषु इत्यादिस्थानेषु आयुःप्रभृतियः सर्वव्यवहारो भवति स सार्धद्वयद्वीपान्तर्वतिपुष्पदन्तयोः परिभ्रमणस्वरूपया गत्या एव प्रचलति, उक्तश्च;"लोगाऽणुभजणीयं जोइसचकं भणंति अरिहंता । सवे कालविसेसा जस्स गइविसेसनिप्फन्ना" ॥ १॥ ॥ १३ ॥ त्रयोदशगाथाभिर्जीवद्रव्यस्य पश्चाऽजीवद्रव्याणाश्च पृथक् पृथक् स्वरूपं व्याख्यायेदानीं मध्येद्रव्यषद्कं किं द्रव्यं परिणामित्वादिभिः कतिभिः पर्याययुक्तमिति प्रश्नावऽकाशं मनसि निर्धार्य तस्य समाध्यर्थमिमां वक्ष्यमाणां गाथामाचार्य आह;परिणामि-जीव-मुत्तं, सपएसा-एग खित्त-किरिया या निच्चं-कारण-कत्ता, सवगय-इयर अप्पवसे॥१४॥ टीका:-'परिणामी, ' त्यादि द्रव्यपदकमध्ये निखिलानि द्रव्याणि परस्परं समानधर्माणि उताऽन्यथा ? इति विवेचयितुं परिणामीत्यादीनि सप्रतिपक्षानि द्वादश द्वाराणि प्रोच्यन्ते, तद्यथा-पट्स द्रव्येषु कति द्रव्याणि परिणामीनि, कति चाऽपरिणामीनि? (१) कति जीवाऽऽत्मकानि कति चाऽजीवलक्षणानि ?(२) कानि मृता॑नि कान्यमूर्तानि ?(३) कानि द्रव्याणि सप्रदेशानि कानि च प्रदेशवर्जितान्यखण्डस्कंधाऽऽत्मकानि ? (४) कति द्रव्याणि एकत्त्वसंख्याभाञ्जि कति चाऽनेकत्वसंख्योपेतानि ? (५) पट्सु द्रव्येषु कति द्रव्याणि क्षेत्रस्वरूपाणि (आधारस्वरूपाणि) कति च क्षेत्रलक्षणानि (आधेयाऽऽत्मकानि) ? (६) कति सक्रियाणि कति चाक्रियाणि ? (७) कति नित्यानि कति चाऽनित्यानि ? (८) कति द्रव्याणि द्रव्यान्तराणां क्रियाऽन्तराणां कारणस्वरूपाणि, कति च कारणवरहितानि ? (९) कति द्रव्याणि कर्त्तलक्षणानि कति च कर्तृत्त्व ॥ ३९ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy