SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ EZE3> < श्योरेकत्वाऽभ्युपगमाजलद्रव्यं च विरोधकमित्यसिद्धार्थतैव, स्वादारेका निरन्तरं धारं वर्षति बलाहके प्रदीपोलिन्दकादिव्यवस्थापितः प्रद्योतत एव बहिः, यदि च विरोधः स्थान बहिः प्रकाशो विभाव्येत जलपातेनाऽपनीतत्त्वादिति, अत्रोच्यते; प्रादीपाः पुद्गलास्ताथात्म्यमपरित्यजन्तो निःसृताः तथाविधतामुदबिन्दुसम्पर्काद्विजहति, तत्समकालं चाऽपरे प्रदीपशिखया विकीर्णाः कृशानुपुद्गलास्तमाकाशमश्नुवते, न च ते जलपातेन विध्यापयितुं शक्याः, परिणामवैचित्र्याडवानलाऽवयवा इवेति, स्याद्वादिनां च किश्चिद्र्व्यं केनचित्सह विरुध्यते दध्यादि तैलादिना न तु गुडादिना, न च किश्चिन्न विरुध्यते तैलं दध्यादिना, न च तस्य द्रव्यता हातुं पायंते, अतः परिणतिक्रमविशेषात्तथाविधं परिणाममपहाय पुद्गलाः परिणामान्तरेण वर्त्तन्ते, पृथिल्यादिपरमाणुजातिनियमश्चाऽसिद्धः, सर्वेषां स्पर्शत्त्वे सति रूपादिमत्त्वात् , गुणक्रिययोश्च द्रव्यपरिणाममात्रत्वात् तदाऽऽधाराऽनुपलब्ध्याद्यप्यसिद्धमिति ॥ चन्द्र-ग्रह-नक्षत्र-तारक-रत्न-खद्योतप्रभृतीनां यः शीतः प्रकाशः स उद्योतः, जातवेदसो य उष्णस्वरूपः प्रकाशः स उद्योतत्त्वेन न भण्यते । अयमुद्योतश्चन्द्रादीनां विमानशरीरप्रभृतिभ्यःप्रतिसमयं निर्गच्छन् पुद्गलप्रवाहाऽऽत्मकोऽस्ति । वर्तमानकालेऽपि यथा इलेक्ट्रीकाख्यविद्युत्प्रदीपेभ्यो निर्गच्छन् रश्मिसमृहःप्रत्यक्षं दृष्टिपथमायाति, एवमुद्योतोऽपि पुद्गलप्रवाहाऽऽत्मकः प्रतिसमयं तत्तद्विमानेभ्यो निर्गच्छति, तथा चोक्तं तत्त्वार्थवृत्तौ;-"उद्योतश्च चन्द्रिकादिराह्लादकत्त्वाजलवत् प्रकाशकत्त्वादग्निवत् , तथा अनुष्णाऽशीतत्त्वात् पद्मरागोपलादीनाम् , अतो मूर्त्तद्रव्यविकार उद्योतः" इति ।। सूर्याचन्द्रमसोस्तथाप्रकारकाऽन्यतेजस्विपुद्गलानाञ्च प्रकाशरश्मिभ्यो निर्गच्छन् योऽन्य उपप्रकाशः सा प्रभेत्युच्यते, यतोऽप्रकाशस्थानवर्तीन्यपि 092Egyz卐0卐卐 < - > K
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy