________________
श्रीनवतत्त्वसुमङ्गलाटीकायां
<>yzy
अजीवतत्त्वे शब्दादि
खरूपम् ॥
॥३२॥
>
>y-
मूर्तेऽस्ति, तथा प्रतीपयायित्त्वात् पर्वतप्रतिहताऽश्मवत् , द्वाराऽनुविधायित्वादातपवत् , संहारसामर्थ्यादगुरुधूपवत्, वायुना प्रेर्यमाणत्वात् तृणपर्णादिवत् , सर्वदिग्ग्राह्यत्वात् प्रदीपवत् , अभिभवनीयत्वात् तारासमूहादिवत् , अभिभावुकत्वात् सवितमण्डलप्रकाशवत् , महता हि शब्देनाऽल्पोऽभिभूयते शब्द इति प्रतीतम् , तसात् पुद्गलपरिणामः शब्द " इति । शब्दस्याऽऽकाशगुणत्वाभावे-पुद्गलपरिणामत्त्वे वा विशेष जिज्ञासुभिस्तत्त्वार्थसूत्रस्थं वादस्थलं विलोकनीयम् ॥
अंधकारः, तमः, तमसः, तिमिरमिति पर्यायाः, अंधं करोतीत्यन्धकारः, यथाकुड्याद्यावरणेन व्यवहितं वस्तु विशिष्टनमन्तरेण जीवेन न दृश्यते तथाऽन्धकाराऽऽवृतमपि पदार्थमाश्रवणदीर्घनेत्रोऽपि दृष्टुं न पारयति, अतोऽन्धकारः पुद्गलपरिणामः, उक्तश्चाऽन्यत्र-" तमस्तावत्पुद्गलपरिणामो दृष्टिप्रतिबन्धकारित्वात् कुड्यादिवदावारकत्वात् पटादिवत् "॥ ननु च द्रव्यगुणकम्मनिष्पत्तिवैधाद् भावाऽभावस्तमः, यदि चेदं द्रव्यं भवेत् तदाऽनित्यत्त्वाद् घटादिद्रव्यवम्निष्पोत, न च द्रव्यवभिष्पद्यते, अमूर्त्तवादस्पर्शचात् प्रकाशविरोधादणुभिरकृतत्त्वाच्च, नाऽपि गुणः, गुणेन चाऽऽधारवत्वेनाऽवश्यं भाव्यं, अस्याऽऽधाराऽनुपलन्धिस्तु सुप्रतीता प्रकाशविरोधाच्च, कर्माऽपि न भवति, तदाऽऽश्रयाऽनुपलब्धेः संयोगविभागसंस्काराऽहेतुत्वात , अतस्तेजसो यत्राऽभावस्तत्र तमः, तथा तेजसो द्रव्यान्तराऽऽवरणाच तमो भवतीति, अत्रोच्यतेः व्यवधानक्रियासामर्थ्यात् कुड्यावत्तमः पौद्गलम् , अमूर्त्तत्त्वाऽस्पर्शत्वपरमाण्वकृतत्त्वान्यसिद्धानि, मूर्त्तत्त्वादियोगात्तमसः, सत्यपि च मूर्त्तवादिमत्त्वे न स्पर्शादयोऽसदादिभिलक्ष्यन्ते, तमसस्तथाविधपरिणतिभाक्त्वात् , वातायनदृश्यरेणुस्पशादिवत् , यत्तूक्तं प्रकाशविरोधादिति न किल किञ्चित्कार्यद्रव्यं तैजसेन प्रकाशेन विरुध्यते, तमस्तु प्रकाशविरोधि तसान पृथिव्यादि कार्य तम इत्येतदयुक्तम् , तेजःप्रका
<3-
॥३२
i>