________________
>卐 zy
>卐<
दपि शब्दोऽष्टस्पर्शिबादरपरिणामिपुद्गलस्कंधादुत्पद्यते । शब्दः स्वयं तु चतुःस्पर्शी पुद्गलस्कंधोऽस्ति, अष्टस्पर्शिवादरपरिणामिपुद्गलस्कंधेभ्यः तथाप्रकारकजीवप्रयत्नेन अथवा तेष्वष्टस्पर्शिस्कंधेषु तथास्वाभाव्याद्विकारात् तेष्वेव स्कंधेष्ववगाढा भाषावर्गणापुद्गलाः शब्दत्त्वपरिणामं संप्राप्योच्छलन्ति । सा भाषावर्गणा चतुःस्पर्शिपुद्गलस्कन्धलक्षणा, जीव औदारिकवैक्रियाऽऽरहाकशरीरैश्शब्दमुत्पादयति, न पुनस्तैजसकार्मणशरीराभ्यामुत्पादयितुं समर्थः, पुनर्निर्जीवाश्मभ्योऽपि परस्पराऽऽस्फालनाद्यः शब्दस्सञ्जायते सोऽपि निर्जीवौदारिकदेहजन्य एव विज्ञेयः ॥ नैयायिकास्तु शब्दमाकाशगुणत्त्वेन मन्यन्ते तथा च ख्यापयन्ति, पुनराकाशस्याऽमूर्त्तत्त्वादाकाशगुणभूतं शब्दमप्यमूर्तत्त्वेन वर्णयन्ति, परं तन्न समीचीनं युक्त्यसंगतत्त्वात् प्रत्यक्षबाधकत्त्वाच्च, तच्चैवम् ;-शब्दो नाऽऽकाशगुणो नाऽप्यमूर्तः, मूर्त्तता च शब्दस्योच्चैर्मेघनिःस्वनेन सिंहक्ष्वेडितादिना अन्येन केनचिदप्युचैःशब्देन जायमानात् कर्णानां बधिरत्त्वात् सुप्रतीता, न चाऽमूर्तभूतेन शब्देनाऽऽस्फाल्यमानौ श्रवणौ बधिरत्त्वमापनीपद्येते, उच्चैश्शब्देन कदाचिजीर्णभित्तिकगृहाण्यपि विशीर्णतामाप्नुवन्ति कदाचिद् गिरिशिखरणामपि निपतनं शास्त्रे श्रूयते, नाऽमूर्तशब्दस्यैतावती शक्तिः कल्प्यन्ते मेधाविमिः, अन्यच्च पाश्चात्त्यवैज्ञानिकसशोधनानुसारेण 'वायरलेस-टेलिग्राफ-टेलिफोन-रेडियो-फोनोग्राफ' संज्ञकेषु यंत्रेषु शब्दस्य ग्राह्यत्वं प्रत्यक्षमनुबोभूयते, न च मूर्त्तिमतां पुद्गलानामन्तरेणाऽमूर्तानामाकाशधर्मादीनां ग्रहणं संभाव्यते, तस्मात् शब्दः पुद्गलगुणो मूर्तश्च । तत्त्वार्थवृत्तावपि चोक्तं;-शब्दः पुद्गलद्रव्यपरिणामः, तत्परिणामता चाऽस्य मूर्त्तत्त्वात् , मूर्तता च द्रव्यान्तरविक्रियाऽऽपादनसामर्थ्यात् पिप्पलाऽऽदिवत् , ताड्यमानपटहस्थकलिंचादिप्रकम्पनात् , तथा शङ्खादिशब्दानामतिप्रवृद्धानां श्रवणबधिरीकरणसामर्थ्यम् , तच्च नाऽऽकाशादाव
卐卐卐卐yz卐ogy-卐र
-
-卐>卐
<
>