SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ श्रीनवतत्त्वसुमङ्गलाटीकायां अजीवतत्त्वे शब्दादि ह ॥३१॥ स्वरूपम् ॥ -卐卐-卐>卐र | लक्षणं तु 'सबंधयारे' ति गाथायां, कालस्य च 'समयावलीमुहुत्ते' त्ति गाथायामग्रे स्फुटतया वक्ष्यमाणं तथाप्यत्रातिसंक्षेपेण लिख्यते;-वर्णगन्धरसस्पर्शशब्दान्धकाराऽऽदिलक्षणाः पुद्गलाः, शीताऽऽतपवर्षादिहेतुश्च काल इति ॥ १० ॥ पुद्गलस्य भेदचतुष्कमभिधाय पुद्गललक्षणमाह;सइंधयार उज्जोअ, पभाछाया तवेहिया। वण्णगंधरसाफासा, पुग्गलाणं तु लक्खणं ॥११॥ टीका-'सइंधयारे' त्ति-शब्दान्धकारोद्योतप्रभाछायाऽऽतपवर्णगन्धरसस्पर्शाः पुद्गलानां परिणामाः पुद्गलद्रव्यस्य लक्षणत्वेन व्याख्यायन्ते, एभिश्शब्दादिभिः पुद्गलद्रव्यं लक्ष्यते, तस्मादेते पुद्गलस्य लक्षणभूता इति गाथाक्षरार्थः ॥ अथ शब्दादयः प्रत्येकं संक्षेपतो व्याख्यायन्ते । तत्र शब्दो-नादो-ध्वनिः-स्वर इत्यादयस्समानार्थाः, अयं शब्दः सचित्ताऽचित्तमिश्रभेदात्रिधा, तत्र जीवेन मुखद्वारोच्चार्यमाणः शब्दः सचित्तः, द्वयोरश्मनोः परस्परं प्रतिस्खलनाद् यो जायते सोऽचित्तः, जीवप्रयत्नेन वाद्यमानस्य मृदङ्गादेयः शब्दः स मिश्रः, अथवा शुभाऽशुभमेदाभ्यां व्यक्ताऽव्यक्तभेदाभ्यां वा द्विप्रकारकश्शब्दः, यं शब्दं श्रुत्वा कर्णयोराहादस्सज्जायते स शुभः राजहंसशुकपिकमयुरादीनामिव, यश्च कर्णकटुः | खरोष्ट्रादीनामिव सोऽशुभः । द्वीन्द्रियप्रभृतीनां तिर्यपञ्चेन्द्रियपर्यन्तानां यश्श्ब्दस्तत्र व्यक्ताऽक्षराणामभावादव्यक्तः, मनुष्यादीनां शब्दस्य तु व्यक्ताऽक्षरात्मकत्वाद् व्यक्त इति भेदप्रमेदाः स्वप्रज्ञयाऽवगन्तव्याः। उक्तप्रकारकेषु शब्देषु कश्चि १ कीरभारण्डादीन् वर्जयित्त्वेदं ज्ञेयं, यतस्ते स्पष्टाऽक्षरां वाचं ब्रुवते ॥ z04-5 ॥३१॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy