SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ zy > < > वानामवगाहदानस्वभाव आकाशः, स च लोकाऽलोकप्रमाणपरिमितः स्कंध-देश-प्रदेशमेदभिन्नः प्रागल्यावर्णितस्वरूपो धर्माऽधर्मजीवपुद्गलानामवगाहप्रदायको ज्ञातव्यः॥ पुग्गला चउहा' इत्यादि, पूरणगलनधर्माणः पुद्गलाः, इदं पुद्गलद्रव्यं चतुर्भेदभिन्नं, तद्यथा-स्कन्धः, देशः, प्रदेशः, परमाणुश्च, एतेषां भेदानां व्याख्या धम्माऽधम्म' इति गाथायामनुपदमेवोक्ता तथापि प्रसङ्गतोत्रापि लेशतः प्रदर्यन्ते, चतुर्दशरज्जुपरिमिते कटिविन्यस्तकरशाखपुरुषाकारे वैशाखसंस्थानीयेऽस्मिँल्लोकेऽञ्जनपेटायामञ्जनमिव सर्वत्र पुद्गला निचिताः, तत्र केचित् पुद्गलाः परमाणुस्वरूपा निर्विभाज्यभागलक्षणाः, केचिद् व्यादिपरमाणुमिलनाद् द्विप्रदेशिस्कन्धस्वरूपाः, त्रिभिः परमाणुभिर्निष्पन्नास्त्रिप्रदेशिस्कन्धाः, एवं चतुःप्रदेशिनः पञ्चप्रदेशिनःशतप्रदेशिनः सहस्रप्रदेशिनः संख्यप्रदेशिनोऽसंख्यप्रदेशिनोऽनन्तप्रदेशिनः स्कन्धाः सुधिया विज्ञेयाः। परमाणूनां परस्परसंयोगाद्यः स्कंधः सञ्जायते तत्र संयोगे मुख्यवृत्त्या परमाणुवर्तिनी स्निग्धता रूक्षता च,हेतुः, यत उक्तं पूज्यपादारविन्दैः श्रीमद्भिरुमास्वातिसूरिप्रकाण्डैस्तत्त्वार्थसूत्रे पश्चमाध्याये:-" स्निग्धरूक्षत्त्वाद्वन्धः," इयं स्निग्धता रूक्षता वा कियत्प्रमाणा स्यात्, समाना अल्पा उताधिका, आधिक्यश्चाऽल्पता कस्या इति विशेषाधिगमस्तत्त्वार्थटीकातोऽवसेयः, मन्दमतीनां बोधायाऽयं प्रयासः, यदि विस्तरस्स्यात्तदा प्रयासवैफल्यं भवेत् ।। उक्तलक्षणेषु स्कंधेषु कस्यचिद्देशस्य कल्पनाऽथवा विवक्षितस्कंधादमुकविभागस्य ततो भेदः स देशः, तेष्वेव स्कन्धेषु देशेषु वा सम्बद्धो निर्विभाज्यभागलक्षणो यो विभागः स प्रदेश इति पुद्गलस्य चत्वारो भेदाः। नन्वजीवद्रव्याणां लक्षणव्यावर्णनप्रसङ्गे पुद्गलभेदकथनमयुक्तम् ? सत्यं, धम्माऽधर्माऽऽकाशद्रव्याणां तु भेदाः पूर्व व्याख्याताः परं पुद्गलस्य मेदाः प्राङ्नोक्ता अत इदानीं कथनं नाऽयुक्तं, पुद्गलस्य 0卐yyzy०卐)-) = > - < >
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy