________________
श्रीनवतत्त्वसुमङ्गलाटीकायां॥३०॥
अजीवतत्त्वे | धर्मा| धर्मयोः
स्वभावनिरूपणम्॥
>卐卐-卐-卐>卐८卐>卐zE
गमनक्रियायां साहाय्यको धर्माऽस्तिकायः, एवमेव स्थितिपरिणामभाजां जीवपुद्गलानां स्थितिकर्मणि साहाय्यकोऽधाऽस्तिकायः । एतौ हि धर्माऽधौं मनुजादीनां प्रयत्नादप्रयत्नाद्वा गतिस्थितिपरिणामपरिणतानां पदार्थानां लोके गतिस्थितिहेतू , अलोके पुनरनयोरभावात् सिद्धानामिन्द्रादिदेवानामपि गतिस्थिती न स्यातामित्यनयोस्सामान्येनाऽस्तित्वख्यापनम् । अत्र कश्चिदारेका कुरुते-ननु जीवपुद्गलेषु गतिस्थितिशक्तेरभावः ? यत एवमुच्यते यदेतौ धाऽधावेव जीवपुद्गलानां गतिस्थिती कारयतः? उच्यते, मैवं मन्येथाः, यतो न धर्माऽधम्मौ जीवपुद्गलानां हस्ताद्यवयवं धृत्त्वा प्रसह्य गतिस्थिती निर्वञ्जयतः, जीवपुद्गलास्स्वयमेव गतिस्थितिसामर्थ्य भाजः, किन्तु पूर्वोक्तरीत्या उड्डयनशक्तिभाजो विहङ्गमस्य वायुः, तरणकुशलानां मत्स्यानामुदकं, आकर्णायतलोचनानामपि पुंसां दर्शनक्रियायां यथा पुष्पदन्तयोः प्रकाश उपकारकस्तथानाप्य वगन्तव्यम् । कस्मिँश्चिदपि कर्मणि कारणचतुष्कमपेक्षितम् , उपादानकारणं १ अपेक्षाकारणं २ निमित्तकारणं ३ असाधारणकारणश्च ४ । कुंभकारो घटं निर्मिमीते तत्र मृत्तिका उपादानकारणम् , दण्डचक्रादिनिमित्तकारणं, चक्रभ्रमणमसाधारणकारणम् , आकाशाद्यपेक्षाकारणम् , एवमेतावपि धर्माऽधम्मौ जीवपुद्गलानां गतिस्थितिकर्मण्यपेक्षाकारणत्वेन समाख्यातौ ॥९॥
एवं धम्मोऽम्मेयोः स्वभावं कथयित्त्वाऽऽकाशाऽस्तिकायस्य स्वभावं पुद्गलस्य भेदचतुष्टयश्च व्याचिख्यासुराचार्यो गाथान्तरमाह;अवगाहो आगासं, पुग्गलजीवाण पुग्गला चउहा ॥ खंधादेसपएसा, परमाणु चेव नायवा ॥ १० ॥
टीका-अवगाहन्ते गमनाऽऽगमनं कुर्वन्ति जीवपुद्गलादीनि यत्र सोऽवगाह अवकाश आकाश इत्यनर्थान्तरम् । पुद्गलजी
卐yyyzogy-!
॥३०