________________
>y zy
<
->
वा न परमाणुषु गुणतयाऽवतिष्ठति, परं यदा परमाणूनां स्कंधो भवति तदा एकतरः परिणामः स्वयमुपजायत इति परमाणुस्वरूपं लेशतो प्रदर्शितम् , दिङ्मात्रमेतत् , विशेषमधिजिगांसवः प्रौढतमान् ग्रन्थान्तरान् विलोकयन्तु ॥ ८॥
अजीवस्य चतुर्दशभेदानुक्त्वा द्रव्यपटु मध्ये कतिद्रव्याण्यजीवस्वरूपाणि ? प्रत्येकद्रव्यस्य च का स्वभाव इत्याविर्भावयितुमाह;धम्माऽधम्मा पुग्गल, नह कालो पंच हुंति अज्जीवा ॥चलणसहावोधम्मो, थिरसंठाणो अहम्मो य॥९॥ ____टीका; 'धम्म' इति, धर्मास्तिकायः, अधाऽस्तिकायः, पुद्गलाऽस्तिकायः, नभ आकाशः तस्याऽस्तिकायः कालश्चेति पञ्चद्रव्याण्यजीवस्वरूपाणि जीवद्रव्येण सह षड् भवन्ति । पूर्वोक्ताज्जीवपञ्चकमध्ये विना पुद्गलद्रव्यं चत्वारि द्रव्याण्यमूर्तानि निष्क्रियाणि च, पुद्गलद्रव्यं तु रूपि, रूपं 'रूपस्पर्शादिसन्निवेशो मूर्तिः' इति वचनात् , तदेषामस्तीति रूपिणः, तेषामेव रूपादिमत्त्वात् , रूपग्रहणं गन्धादीनामुफ्लक्षणम् , तद्व्यतिरेकेण तस्याऽसम्भवात् । अनन्ताऽनन्तपरमाणुप्रचयरूपाः स्तम्भकुम्भादयस्स्कन्धाश्चर्मचक्षुाह्याः, अचित्तमहास्कन्धादयस्तु चर्मचक्षुषा न दृश्यन्ते । एकजीवस्य यावन्तः प्रदेशास्तावन्तः प्रदेशा धर्माऽधाऽस्तिकाययोः प्रत्येकं वर्त्तन्ते । आकाशोऽनन्ताऽनन्तप्रदेशात्मको लोकाऽलोकव्यापी च, पुद्गला पुनरनन्ता लोकव्यापिन एव, कालस्तु तत्त्वतो वर्तमानसमयरूप एव, अतो न देशप्रदेशकल्पना तस्य ॥ गाथापश्चार्धेनाऽथ धाऽधर्मयोर्लक्षणमाह-चलण सहावो धम्मो' इत्यादि, गतिपरिणामपरिणतानां जीवपुद्गलानां
卐卐ध卐yz gogy-卐e
<卐 -
>