SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ 2 श्रीनवतत्त्व सुमङ्गलाटीकायां॥२९॥ अजीवतत्त्वे परमाणुस्वरूपम् ॥ > वस्खभाववती, तत्र देवत्व-मनुजत्त्व-नरकत्वादयो जीवस्य विभावाः, स्कन्धदेशादयः पुद्गलस्य च, तसात्तत्त्वतः परमाणुखरूपमेव पुद्गलद्रव्यम् , स्कंधादयस्तूपचारतः पुद्गलाभिधानाः। ननु परमाणुप्रदेशयोर्यदा क्षेत्रं समं तदा द्वयोरेकमेव नाम रक्षितव्यम् ? किमर्थं नामाऽन्तरम् ? उच्यते-प्रदेशपरमाणू तुल्यक्षेत्रिणी, परं स्कंधदेशाभ्यां भिन्नःस परमाणुः, ताभ्यामभिन्नः स प्रदेश इति | भिन्नाभिन्नपेक्षया नामाऽन्तरम् । यथा काचित् पितृगृहे तिष्ठती सती कन्यासंज्ञया व्यपदिश्यते, सैव श्वसुरगृहे सती वधूनाम्ना प्रचख्यते, स्त्रीत्वसादृश्येऽपि स्थानभेदात् संज्ञाभेदो दृश्यते एवमत्राऽप्यवसेयम् । अयं परमाणुः तीक्ष्णशस्त्रेण न छिद्यते, जातवेदसा न दह्यते, अम्भसा न क्लिद्यते,केनचित पुद्गलान्तरेण न प्रतिहन्यते च। यद्यपि पर्वतजलाग्निषु परमाणोर्गतेर्विघाताऽभावात् परमाणुरप्रतिहतगतिरुच्यते, तथापि त्रिधा प्रतिघाती भवति,तत्र विमात्रस्निग्धरूक्षत्त्वेन परमाणोरन्यपरमाणुना सह सम्बन्धाद् बन्धनपरिणामप्रतिघाती भवति, अलोके धर्माऽस्तिकायस्याऽभावत्वेन गमनक्रियायामुपकारकाऽसम्भवात् परमाणुलोकान्ते प्रतिहन्यते, स उपकाराऽभावप्रतिघाती उच्यते, तथा विस्रसापरिणामपरिणतः कश्चित् परमाणुरत्यन्तशीघ्रगत्यागच्छन् तादृगवेगवता आगच्छता केनचिदन्यतरपरमाणुना प्रतिस्खल्यते, स वेगप्रतिघातित्त्वेन प्रोच्यते, एवं विवक्षितेकस्मिन् परमाणौ प्रतिघातित्त्वाप्रतिघातित्त्वे वर्तेते, परं स्थलदृष्ट्या परमाणुरप्रतिधातित्त्वेनेवोच्यते ॥ अयं परमाणुरेकाकाशप्रदेशाऽवगाही अस्ति, पूर्वोक्तस्वरूपाः परमाणवः संख्याता असंख्याता अनन्ता वा सूक्ष्मपरिणामपरिणता एकत्र सम्मिलितास्सन्ति तदा चर्मचक्षुषामगोचरा भवन्ति, अचित्तमहास्कन्धादिवत, यदा ते एव अनन्ताः सन्त एकत्र सम्भूय बादरपरिणामस्कन्धत्त्वेन संभवन्ति तदा केचन स्कंधा दृष्टिपथं समायान्ति, एष सूक्ष्मपरिणामो बादरपरिणामो ७卐卐yzo卐-- - - > |॥२९॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy